________________
ओ० २६
भिक्षार्थं प्रविष्टः कथको धर्मकथां कुर्वन्नास्ते, ततश्च तस्य द्वितीयो वारयति - मा कृथा धर्मकथां ग्लानादयः सीदन्तीति, अथवाऽऽगत्य गुरोः कथयति यदुतायं धर्मकथां कुर्वस्तिष्ठति, गुरुरपि तं निवारयति, यदि वारितोऽपि कथयति तदा स एवमेकाक्येव संजायते । 'काहिए'त्ति गयं, मायावी भद्रकं भुङ्क्ते अत एव एकाकी गच्छति ॥ 'माइल्ले' त्ति गयं, 'अलसे'त्ति व्याख्यायते—
अलसो चिरं न हिंडइ लुद्धो ओहासए विगईओ । निम्मो णेसणाई दुल्लहभिक्खे व एगागी ॥। २२५ ॥ ( भा० )
अलसश्चिरं न हिण्डते कतिपयां भिक्षां गृहीत्वाऽऽगच्छति । 'अलसे' त्ति गयं 'लुडो'त्ति भण्णति, लुब्धो विकृती: प्रार्थयते, ततश्चैकाक्येव याति । 'लुद्धे' त्ति गयं 'णिद्धम्मेत्ति भण्यते, निर्धर्मा अनेषणीयादि गृह्णाति, अपरसाधुप्रेरितश्चैकाकीभूयैवाटति । 'णिद्धमेत्ति गयं, 'दुल्लभे'त्ति भण्यते, दुर्भिक्षे - दुर्लभभिक्षायां संघाटं नेच्छति एकाक्येव भिक्षयति, ततचैकाक्येव भवति, 'दुल्लभे' त्ति गतं, 'अत्ताहिट्ठिय'त्ति व्याख्यायते—
अत्ताहिट्ठियजोगी असंखडीओ वऽणिट्ठ सवेसिं । एवं सोएगागी हिंडइ उवएसऽणुवदेसा ॥ २२६ ॥ ( भा० )
आत्माधिष्ठितेन लब्धेन भक्तादिना युज्यत इति आत्माधिष्ठितयोगी अत्तलद्धिओ इत्यर्थः, स एकाकी भवति । 'अ ताहिट्ठिए' त्ति गयं, 'अमणुन्ने' त्ति व्याख्यायते - 'असंखडिओ वsणिट्ठ सवेसिं'ति कलहकारकः सर्वेषामनिष्टः सन् ततश्चैकाकी क्रियते, एवमेभिः कारणैरेकाक्यसौ हिण्डते, उपदेशेन अनुपदेशेन वा, उपदेशेन गुरुणाऽनुज्ञातः अनुपदेशेनगुरुणाऽनुक्तः । व्याख्यातं सङ्घाटकद्वारम् अधुनोपकरणद्वारमुच्यते
For Personal & Private Use Only
inelibrary.org