________________
त्रिषु गृहेषु यौगपद्यागतां भिक्षां यदा गृह्णाति तदा प्राणिवधः कृतो भवति, ततश्च प्रथमवतभङ्गः, तथा चासी एकाकी कौटलं ज्योतिष निमित्तं वा प्रयुङ्क्ते, ततश्च अनृतस्य नियमेनैव सम्भवो यतस्तत्रोपघातकरमवश्यमुच्यते, उपधातजनक चानृतं तदुच्चारणे द्वितीयव्रतभङ्गः। तेणं उच्छुद्धाई' अथ तत्र गृहे एकाकी प्रविष्टः सन् उच्छुद्धं-विक्षिप्तं हिरण्यादि पश्यति ततश्च तद्गृह्णाति, एकाकिनो मोहसंभवात् , 'तेणं ति ततः स्तैन्यदोषस्तृतीयव्रतभङ्ग इत्यर्थः, तथा कदाचि
देकाकी अनेषणीयमपि गृह्णीयात् , ततस्तस्मिन्ननेषणीये गृहीते परिग्रहकृतो दोषः, चतुर्थव्रतमत्र पृथम् नोक्तं, मध्यमतीर्थकनिराणां परिग्रह एव तस्यान्तर्भावात् , किल नापरिगृहीता स्त्री भुज्यत इति, पश्चिमस्य तु तीर्थकृतः पृथक् चतुर्थ व्रतं, तन्म
तेन चतुर्थव्रतभङ्गं दर्शयन्नाहविहवा पउत्थवइया पयारमलभंति दहमेगागीदारपिहाणय गहणं इच्छमणिच्छे य दोसा उ ॥ २२२॥ (भा.) | विधवा स्त्री, धवो-मनुष्यः स विनष्टो यस्या इति समासः, तथा प्रोषितभर्तृका, तथा या प्रचारं न लभते-निरुद्धा ध्रियते, सा एवंविधा त्रिप्रकारा स्त्री एकाकिनं साधुं प्रविष्टं दृष्ट्वा गृहे द्वारं ढङ्कयित्वा गृह्णीयात् , तत्र यद्यसौ तां स्त्रिय| मिच्छति ततः संयमभ्रंशः अथ नेच्छति तत उड्डाहः, सैव स्त्री लोकस्य कथयति, यदुतायं मामभिभवतीति, ततश्चोड्डाहः। प्रतिद्वारगाथा व्याख्याता । कैः पुनः कारणैरसौ एकाकी भवति ?, तबाहगारविए काहीएमाइल्ले अलस लुद्ध निम्मे । दुल्लभअत्ताहिठिय अमणुन्नेचा असंघाडो॥४१३॥ दारगाहा। 'गारचिए'त्ति गर्वेण लब्धिसंपन्नोऽहमितिकृत्वा एकाकीभवति, तथा 'काहीए'त्ति भिक्षार्थ प्रविष्टो धर्मकथां करोति
CRICALGAORAGARIKARACK
HASSASSICAISUUS
dan Education International
For Personal & Private Use Only
www.janelibrary.org