SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ओ० २५ Jain Education 'शिशिरे' शीतकाले प्रथमपौरुषीं वर्जयित्वा तत्पात्रकं बहिरातपे स्थाप्यते, चरमायां चतुर्थप्रहरे शिशिरषौरुष्यां तत्पात्रकमभ्यन्तरे प्रवेशयेत्, 'गिम्हे अद्धं तु तासि वज्जेज्ज' त्ति ग्रीष्मकाले तयोः - प्रथमचरमपौरुष्योरर्द्ध वर्जयेत्, ततः पात्रकं स्थापयेत् प्रवेशयेद्वा, एतदुक्तं भवति - ग्रीष्मे अर्द्धपौरुष्यां गतायां सत्यां पात्रकं बहिः स्थापयेत् तथा चरमप्रहरार्द्धे गते सति तत्पात्रकं प्रवेशयेत्, किमर्थं ? - 'सिणेहाइरक्खणट्ठा' एतदुक्तं भवति - शिशिरे प्रथमप्रहरः चरमप्रहरश्च स्निग्धः कालस्तस्मिंश्च पात्रकं न क्रियते, लेपविनाशभयात्, तथोष्णकाले च प्रथमप्रहराद्धे चतुर्थप्रहराद्धे च न स्थाप्यते, सोऽपि स्त्रिध एव कालः, अतीवोष्णे स्थापनीयं येन रुह्यत इति । raओगं च अभिकखं करेइ वासाइरक्खणट्टाए । वावारेइ व अन्ने गिलाणमाईसु कज्जेसु ॥ ३९९ ॥ तस्मिँश्चातपस्थापिते 'उपयोगं' निरूपणं 'अभीक्ष्णं' पुनः पुनः करोति, किमर्थमित्यत आह- 'वासाइरक्खणट्ठा' वर्षादिरक्षणार्थ, आदिग्रहणात् श्वादिरक्षणार्थं च, अन्यान् वा साधून् व्यापारयति पात्रकरक्षणार्थं यद्यात्मना ग्लानादिकार्येषु क्षणिकः । कियन्तः पुनर्लेपा दीयन्ते इत्यस्य प्रदर्शनायाह एक्को व जहन्नेणं दुगतिगचत्तारि पंच उक्कोसा। संजमहेउं लेवो वज्जित्ता गारवविभूसा ॥ ४०० ॥ एको जघन्येन प्रलेपो दीयते मध्यमेन न्यायेन द्वौ त्रयश्चत्वारो वा उत्कृष्टतः पञ्च लेपा दीयन्ते, स च संयमार्थं दीयते, वर्जयित्वा गौरवविभूषे, तत्र गौरवं येन मां कश्चिद्भणति यथैतदीयमेतच्छोभनं पात्रमिति, विभूषा सुगमा । इदानीं "धोवे पुणो लेवो"त्ति, अमुमवयवं व्याख्यानयन्नाह - For Personal & Private Use Only 4 ainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy