SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥१४४॥ दत्त्वा तत्र पात्रके सरजस्त्राणं पात्राबन्धं पुनश्चाबन्धगं कुज्जेति तत्र ग्रन्थिं न ददाति, किमर्थम् ?, अत आह— 'साणादिरक्खणट्ठा' श्वानादिरक्षणार्थं ग्रन्थिं न ददाति इदमुक्तं भवति - ग्रन्थिना दत्तेन सता कर्पटैकदेशे गृहीतः सन् शुना मार्जारेण वा नीयते, पुनश्च तत्पात्रकं प्रमृज्य भुवं छायात उष्णे सङ्क्रामयति, एतदुक्तं भवति - अपराह्नच्छायात्रान्तं सन् पुनरुष्णे स्थापयति । तद्दिवसं पडिलेहा कुंभमुहाईण होइ कायवा । छन्नेय निसंकुजा कयकज्जाणं विउस्सग्गो ॥ २११ ॥ (भा० ) यस्मिन् दिवसे पात्रकं लेपयति तस्मिन् दिवसे 'कुम्भमुखादीनां' घटग्रीवादीनां प्रत्युपेक्षणं कृत्वा ततश्च गृह्णाति, येन लिप्तं पात्रकं बहिस्तस्यां ग्रीवायां तस्मिन् दिवसे क्रियते, निशायां तु छन्ने तत्पात्रकं कुर्याद्, आत्मसमीपे कृते च कार्ये व्युत्सर्गः कर्त्तव्यस्तेषां घटग्रीवादीनां तस्मिन्नेव दिवसे येन परिग्रहकृतो दोषो न भवेत्, अन्यस्मिन् दिवसेऽन्यानि भविष्यन्ति । अथ लेपशेषः कश्चिदास्ते ततस्तस्य को विधिरित्यत आह अट्टगहेड लेवाहियं तु सेसं सरूवगं पीसे । अहवावि नत्थि कजं सरूवमुज्झे तओ विहिणा ॥ ३९७ ॥ कदाचित्तत्रान्यत्र वा पात्रकेऽष्टको दातव्यो भवति, ततस्तदर्थं - अष्टकनिमित्तं करेण तं लेपाधिकं शेषं सरूतं पेष्यते, अथ तेन लेपशेषेण न किञ्चित्कार्यमस्ति ततः सरूतमेव विधिना परित्यजेत् छारेण गुण्डयित्वेत्यर्थः । इदानीं तत्पात्रकं कस्यां पौरुष्यां बाह्यतः स्थापनीयं ? कस्यां चाभ्यन्तरे प्रवेशयितव्यमित्येतत्प्रदर्शयन्नाह - पढमचरिमा सिसिरे गिम्हे अद्धं तु तासि वज्जेज्जा । पायं ठवे सिणेहातिरक्खणट्ठा पवेसों वा ॥ ३९८ ॥ Jain Education International For Personal & Private Use Only लेपपिण्डे पात्रलेपना. नि. ३९५३९८ भा. २१०२११ ॥ १४४॥ www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy