________________
भिर्मिलितैस्त्रीन्द्रियपिण्ड उच्यते, एवं सजातीयैर्मिलितैः पिण्डो वक्तव्यो यावत्पश्चेन्द्रिया इति स्वस्थाने स्वस्थाने स पिण्डः । अयं तावद् द्वीन्द्रियादिः पश्चेन्द्रियपर्यन्तः सचित्तादिः पिण्डो भवति, यश्चाचित्तपिण्डो द्वीन्द्रियादिसत्कस्तेन चैतत्कार्यम्
बेइं दियपरिभोगो अक्खाण ससंख सिप्पमाईणं । तेइंदियाण उद्देहिगाइ जं वा वए विज्जो ॥ ३६६ ॥ न्द्रियाणां परिभोगः 'अक्षाणां' चन्दनकानां सशङ्खा याः शुक्तयः तदादीनां शङ्खेषु शुक्तिषु च औषधानि क्रियन्ते । त्रीन्द्रियाणां मध्ये उद्देहिकया, आदिशब्दादन्येन वा त्रीन्द्रियेण यद्वा वैद्यो ब्रूयाद्, उद्देहिकायाः सत्कया मृत्तिकया प्रयोजनं, स सर्वस्त्रीन्द्रियपरिभोगः । इदानीं चतुरिंद्रियपरिभोग उच्यते
चउरिंदियाण मक्खियपरिहारो आसमक्खिया चैव । पंचिंदिअपिंडंमि उ अववहारी उ नेरइया || ३६७ ॥
चतुरिन्द्रियाणां मध्ये 'मक्षिका परिहारेण' मक्षिकापुरीषेण ऊर्द्धविरेकः क्रियते शरीरपाटवार्थ, अश्वमक्षिकोपयोगश्च तयाऽक्ष्णोरक्षराः पतिता उद्धियन्ते । अयं चतुरिन्द्रियपिण्डः, पञ्चेन्द्रियपिण्डे यदि परं नारकैर्व्यवहारः- उपयोगो न कश्चि|त्क्रियते । शेषास्तु तिर्यञ्चो देवा मनुष्याश्चोपयुज्यन्ते, तत्र तिरश्चां पञ्चेन्द्रियाणां सत्कमुपयोगं दर्शयन्नाह -
चम्मट्ठिदंतन ह रोमसिंग अमिलाइच्छगणगोमुत्ते । खीरदहिमाइयाणं पंचिंदिअतिरिअपरिभोगो ॥ ३६८ ॥ तत्र चर्मणा कुष्ठिनः कार्य भवति, अस्था-गृधनलकेन प्रयोजनं भवति वाय्वाद्यपहरणार्थं पादे बध्यते, दन्तेन सूकरादेः संबन्धिना प्रयोजनं नखेन वा, रोमभिः प्रयोजनमुरवादीनां सत्कैस्तैः कम्बलिका भवति, शृङ्गेण किञ्चित् प्रयोजनं भवेत्, अमिला- उरभ्रा तत्पुरीषं पामादावुपयुज्यते, तेन गोमूत्रेण चोपयोगः । शेषं सुगमम् । इदानीं मनुष्योपयोगो दर्श्यते
Jain Educational
For Personal & Private Use Only
Melibrary.org