________________
अन्यालाभे सति, स चापोहः प्रतिलेखना भवति, प्रतिलेखनं प्रतिलेखना, प्रति प्रत्यागमानुसारेण निरूपणमित्यर्थः, सा च । प्रतिलेखना । प्रेक्षणं प्रेक्षणा, प्रकर्षेणेक्षणं दर्शनं प्रेक्षणेत्युच्यते, सा च प्रतिलेखना । निरीक्षणं निरीक्षणा, निः-आधिक्ये 'ईक्ष दर्शने अधिकं दर्शनं निरीक्षणेत्युच्यते, अपिशब्दादन्योपसर्गयोगे चैकार्थिकसंभवो यथा-उपेक्षणेति, चशब्दादाभोगादीनां च शब्दानां ये पर्यायशब्दास्तेऽपि प्रतिलेखनाद्वारस्य पर्यायशब्दाः । आलोकनमालोकः, मर्यादयाऽभिविधिना वा
लोकनमित्यर्थः । प्रलोकनं प्रलोकना, प्रकर्षणालोकनमित्यर्थः । 'एगहा' इति एकाथिकान्यमूनि अनन्तरोद्दिष्टानि भवन्ति ।। 18| पुंल्लिङ्गता च प्राकृतलक्षणवशाद्भवत्येव, यथा-जसो तवो सल्लो, नपुंसकलिङ्गा अपि शब्दाः पुंल्लिङ्गाः प्रयुज्यन्ते एवमत्रा-18
पीति व्याख्याते सत्याह परः-प्रतिलेखनं नपुंसकं, अत्र तु कानिचिन्नपुंसकानि कानिचित्स्त्रीलिङ्गानि कानिचित्पुंल्लिङ्गानि, तत्र नपुंसकस्य नपुंसकान्येव वाच्यानि तत्कथमिति, अत्रोच्यते, एक तावत्प्राकृतशैलीमङ्गीकृत्य नपुंसकस्यापि स्त्रीलिङ्गपुल्लिङ्गैः पर्यायाभिधानमदुष्टं, तथाऽन्यत्प्रयोजनं, संस्कृतेऽप्येकस्यैव शब्दस्य त्रयमपि भवति, यथा तटस्तटी तटमिति, तदत्र |भिन्नलिङ्गाः शब्दाः केन कारणेन पर्यायशब्दा न भवन्तीति ॥ आह-प्रतिलेखनाग्रहणेन किं सैव केवला गृह्यते? किमन्यदपि ?, अन्यदपि किं तत्?, 'पडिलेहओ य' इत्यादि, अथवा का पुनरत्र प्ररूपणा ? इति तदर्थं ब्रवीति
पडिलेहओ य पडिलेहणा य पडिलेहियवयं चेव । कुंभाइसु जह तियं परूवणा एवमिहयंपि ॥४॥
प्रतिलिखतीति प्रतिलेखकः-प्रवचनानुसारेण स्थानादिनिरीक्षकः साधुरित्यर्थः, चशब्दः सकारणादिस्वगतभेदानां समु|च्चायकः, प्रतिलेखन प्रतिलेखना “दुविहा खलु पडिलेहा" इत्यादिना ग्रन्थेन वक्ष्यमाणलक्षणा, चशब्दो भेदसूचकः,
ओ०३ jain Education
For Personal & Private Use Only
Wijainelibrary.org