________________
CA
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
१प्रतिलेख| नाद्वारे प्रतिलेखक: नि०४-५
॥१३॥
RECENSESEARCH
प्रतिलेख्यत इति प्रतिलेखितव्यं “ठाणे उवकरणे" इत्यादिना वक्ष्यमाणं, चशब्दः पूर्ववत् , एवकारोऽवधारणे,नातस्त्रिकादतिरिक्तमस्ति । आह-कथं पुनः प्रतिलेखकप्रतिलेखितव्ययोरनुक्तयोर्ग्रहणमिति !, दण्डमध्यग्रहणन्यायात्, अथवा ग्रन्थेनैवोच्यते-'कुंभादीसु' कुम्भो-घटः, आदिशब्दात्कुटपटशकटग्रहः 'यथा' येन प्रकारेण 'त्रिक' त्रितयं, त्रीणीत्यर्थः, प्ररूपणानि प्ररूपणाः 'एवं ति तथा तेन प्रकारेण, 'इहेति प्रतिलेखनायां, अपिशब्दः साधर्म्यदृष्टान्तप्रतिपादनार्थः, यथा कर्ता कुलालः करणं मृत्पिण्डदण्डादि कार्य कुटः, परस्परापेक्षतया नैकमेकेनापि विनेति, तथा प्रतिलेखना क्रिया, सा च कर्तारं प्रतिलेखकमपेक्षते, प्रतिलेखितव्याभावे चोभयोरभावस्तस्मात्रीण्येतानि-प्रतिलेखकः प्रतिलेखनाप्रतिलेखितव्यं चेति॥ इह च 'यथोद्देशं निर्देश' इति न्यायमङ्गीकृत्य प्रतिलेखक आद्यः कर्तृत्वात्प्रधानश्चेत्यतस्तद्व्याख्यानार्थमाह-पडिदारगाहा एगो व अणेगोवा, दुविहा पडिलेहगा समासेणं । ते दुविहा नायवा निक्कारणिआ य कारणिआ॥५॥ सुगमा, नवरं 'निक्कारणिआ य' इति चशब्दाद्गच्छंस्तिष्ठविशेषणे चात्र द्रष्टव्ये ॥ सकारणाकारणनिर्णयार्थमाह
असिवाई कारणिआ निक्कारणिआ य चक्कथूभाई। तत्थेगं कारणिअं वोच्छं ठप्पा उ तिन्नियरे ॥६॥ सुगमा, नवरं-'तत्थेगे' इति 'तत्र' तेष्वेकानेकसकारणगच्छतिष्ठन्प्रतिलेखकेषु य एकः सकारणो गच्छन् तं वक्ष्ये । तावत्तिष्ठन्तु त्रयः-सकारणानेकनिष्कारणैकानेकभेदाः, तुशब्दात्स्थानस्थितश्च, 'इतरे' अन्य इत्यर्थः॥ कियन्ति पुनस्तान्यशिवादीनि ? येष्वसावेकाकी भवतीत्याह
असिवे ओमोयरिए रायभए खुहिअ उत्तमढे अ। फिडिअगिलाणाइसए देवया चेव आयरिए ॥७॥
*
॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org