________________
*
श्रीओघ- इति । अत्राह-अथैषां द्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनमिति, अत्रोच्यते, यत्प्रतिलेखनाद्वारस्य पूर्वमुपन्यासः कृत- प्रतिलेखनियुक्तिः |स्तत्रैतत्प्रयोजनं-सर्वैव क्रिया प्रतिलेखनापूर्विका कर्तव्येत्यस्यार्थस्य प्रतिपादनार्थ पूर्व प्रतिलेखनाद्वारमुपन्यस्तं, प्रतिलेख- नादीनि ७ द्रोणीया नोत्तरकालं ग्रहणं भवति अतः पिण्डस्योपन्यासः, अशेषदोषविशुद्धः पिण्डो ग्राह्य इति, तदनन्तरमुपधिद्वारस्योपन्यासः
द्वा. नि.२ वृत्तिः
श्प्रतिलेख|क्रियते, किमर्थमिति चेत्, स हि पिण्डो न पात्रबन्धादिकमन्तरेण ग्रहीतुं शक्यते अत उपधिप्रमाणं तदनन्तरमभिधीयते, स
|नानि०३ ॥ १२॥
च गृहीतः पिण्ड उपधिश्च न वसतिमन्तरेणोपभोक्तुं शक्यते, अतः 'अनायतनवयं' इत्यस्य द्वारस्योपन्यासः क्रियते, प्रति-|| हालेखनां कुर्वतः पिण्डग्रहणमुपधिप्रमाणं अनायतनवर्जनं चेच्छतः कदाचित्क्वचित्कश्चिदतिचारो भवतीत्यतोऽतिचारद्वार है क्रियते, स चातिचारोऽवश्यमालोचनीयो भावशुद्ध्यर्थमत आलोचनाद्वारमभिधीयते, आलोचनोत्तरकालं प्रायश्चित्तं तद्योग्य
यतो दीयतेऽतो विशुद्धिद्वारस्योपन्यासः क्रियत इत्यलमतिविस्तरेण ॥ २॥ अधुनैकैकं द्वारं 'व्याचष्टे, तत्र पर्यायतः प्रतिलेखनाद्वारव्याख्यानायाह___ आभोगमग्गण गवेसणा य ईहा अपोह पडिलेहा । पेक्खणनिरिक्षणावि अ आलोयपलोयणेगट्ठा ॥३॥
__ आभोगनमाभोगः, 'भुज पालनाभ्यवहारयोः' मर्यादयाऽभिविधिना वा भोगन-पालनमाभोगः प्रतिलेखना भवति, मार्गणं 18|मार्गणा 'मृग अन्वेषणे' अशेषसत्त्वापीडया यदन्वेषणं सा मार्गणेत्युच्यते, गवेषणं गवेषणा 'गवेष मार्गणे' अशेषदोषरहि-18
तवस्तुमार्गणं गवेषणेत्युच्यते, ईहनमीहा 'ईह चेष्टायां' शुद्धवस्त्वन्वेषणरूपा चेष्टेहेत्युच्यते, सा च प्रतिलेखना भवति, अपोहनमपोहः अपोहः-पृथग्भाव उच्यते, तथा चक्षुषा निरूप्य यदि तत्र सत्त्वसम्भवो भवति तत उद्धारं करोति सत्त्वानां
CRIMARCH
१२॥
AEOSAMAY
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org