SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ SUURUSTASSAGE चवादिपरुषापातस्थण्डिलं नास्ति ततः 'इत्थिनपुंसालोए' स्त्रीनपुंसकालोके स्थण्डिले पराङ्मुखो व्युत्सृजति कुरुकुचा च सैव कर्तव्या। तेण परं आवायं पुरिसेअरइत्थियाण तिरियाणं । तत्थवि अपरिहरेजा दुगुंछिए दित्तचित्ते य॥ ३२०॥ ततः परं तदभावे सति पूर्वोक्तस्थण्डिलस्य तिरश्चां संबन्धिनो ये पुरुषा इतरे च नपुंसकाः स्त्रियः एतेषामापातस्थण्डिले व्युत्सृजनीयं, 'तत्थवि यत्ति तत्रापि-तिरश्चांमध्ये जुगुप्सिता दृप्तचित्ताश्च परिहरणीयाः, यतस्तत्रात्मसंयमोपघातोभवति ॥ तत्तो इत्थिनपुंसा तिविहा तत्थवि असोयवाईसु । तहिअंतु सद्दकरणं आउलगमणं कुरुकुया य ॥ ३२१॥ ततस्तदभावे स्त्रीनपुंसकापातस्थण्डिले गन्तव्यं, तत्र स्त्री त्रिविधा-दण्डिककौटुम्बिकप्राकृतभेदभिन्ना, नपुंसकमपि त्रिविध-दण्डिककौटुम्बिकप्राकृतभेदभिन्नं, तत्राप्यशौचवादिनामापाते व्युत्सृजनीयं, आह-स्त्राद्याशङ्कादयस्तत्र तदवस्था एव दोषाः, उच्यते, 'तहियं तु सद्दकरणं' तत्र स्थण्डिले वजन् अन्येषामाशङ्काविनिवृत्त्यर्थमुच्चैः काशितादिरूपं शब्दं करोति परस्परं वा जल्पन्तो व्रजन्ति ततस्ते गृहस्था नाशङ्कां-ख्याद्यभिलषणरूपां कुर्वते यतस्ते प्रसभं प्रयान्तीति, अनाकुलगमनं वा करोति, एकत्र मिलिता गच्छन्तीत्यर्थः, कुरुकुचा च पूर्ववत्कार्या । उक्त स्थण्डिलद्वारम्, इदानीमवष्टम्भद्वार प्रतिपादयन्नाह अवोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई । तम्हा हहपहहस्स, अवटुंभो न कप्पई ॥ ३२२॥ अवष्टम्भः स्तम्भादौ न कर्तव्यः, यतः प्रत्युपेक्षितेऽपि तत्र पश्चादपि 'अव्यवच्छिन्ना' अनवरतं त्रसाः प्राणा भवन्ति, * Jain Education For Personal & Private Use Only Snelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy