SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ भो० २१ Jain Education यो न त्वस्मत्साधवः तस्मादेत एव शोभनाः पूज्याश्चेति तन्मध्ये यान्ति, संयतापातेऽयं दोषः, संयतीनां त्वापातमेकान्तेनैव वर्जनीयं । अधुना परपक्षमानुषापातदोषान् दर्शयन्नाह - | जत्थsम्हे वच्चामो जत्थ य आयरइ नाइवग्गो णे । परिभव कामेमाणा संकेयगदिन्नया वावि ॥ ३०४ ॥ तत्पुरुषा एवमाहुः यदुत-ययैव दिशा पुरीषव्युत्सर्जनार्थं वयं ब्रजामः यत्र चाचरति -सञ्ज्ञाव्युत्सृजनं करोति नः - अस्म दीयो ज्ञातिवर्गः - स्वजनयोषिद्वर्गः तथैव दिशा एतेऽपि व्रजन्ति, ततश्चैते परिभवमस्माकं कुर्वन्ति, 'कामेमाण' त्ति नून| मेते 'कामयन्ति' अभिलषन्ति स्त्रियं तेन तत्र प्रयान्ति, 'संकेतगदिन्नआ वावि' दत्तसङ्केता वा तेन रूयापाते व्रजन्ति । एते च दोषाः दव अप्प कलुस असई अवण्णपडिसेहविप्परीणामो । संकाईया दोसा पंडित्थि गहे य जं चऽण्णं ॥ ३०५ ॥ कदाचिद्रव मल्यं भवति तत उड्डाहादि 'कलुस' ति कलुषं वा उदकं भवति, 'असई' ति अभावो वा द्रवस्य भवति, ततश्चैते दोषाः - अवर्णः - अश्लाघा प्रवचने भवति, प्रधानो वा कश्चिदृष्ट्वा प्रतिषेधं भिक्षादेः करोति, 'विपरिणामो वा' कस्यचिदभिनवश्राद्धस्य, शङ्कादयश्च दोषाः पण्डकस्त्रीविषया भवन्ति, 'गहिए जं चडवणं' ति पण्डकस्त्रीभ्यां बलाद्गृहीतस्य यच्चान्यदाकर्षणोड्डाहादि भवति स च दोषः । अधुना तिर्यगापातदोषं दर्शयन्नाह - आहणणाई दित्ते गरहि अतिरिएस संकमाईया। एमेव य संलोए तिरिए वज्जेत्तु मणुयाणं ॥ ३०६ ॥ दृप्ततिर्यगापाते - मारणकतिर्यगापाते आहननादिदोषाः, आदिग्रहणाद्भक्षणदोषश्च मर्कटादिकृतः, गर्हितेषु-गर्दभ्यादिषु For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy