________________
तत्रापातं स्थण्डिलं 'द्विविधं द्विप्रकारं वर्तते, कथं द्वैविध्यं भवतीत्यत आह-'सपक्खपरक्खओ य नायवं तत्र स्वपक्षः-संयतवर्गः परपक्षः-गृहस्थादिः, तत्र स्वपक्षपातं द्विविधं संयतस्वपक्षापातं संयतीस्वपक्षापातं च ।।
संविग्गमसंविग्गा संविग्गमणुण्णएयरा चेव । असंविग्गावि दुविहा तप्पक्खियएअरा चेव ॥ २९८ ॥ HI तत्र ये ते संयतास्ते संविग्नाश्च असंविग्नाश्च, ये ते संविग्नास्ते मनोज्ञा इतरे-अमनोज्ञाश्च, असंविग्ना अपि द्विविधाः'तत्पाक्षिकाः' संविग्नपाक्षिकाः इतरे-असंविग्नपाक्षिकाः निर्द्धमों नैव श्लाघन्ते तपस्विनस्तु ये निन्दन्ति । उक्तः स्वपक्षः, इदानीं परपक्ष उच्यते| परपक्वेवि अ दुविहं माणुस तेरिच्छिअंच नायचं । एक्केकंपि अतिविहं पुरिसित्थिनपुंसगे चेव ॥२९९ ॥ ।
परपक्षेऽपि च दुविहं स्थण्डिलं मानुषापातं तिर्यगापातं च ज्ञातव्यं, यत्तन्मानुषापातं तत्रिविधं-पुरुषापातं ख्यापातं नपु-15 सकापातं च, तिर्यगापातमपि त्रिविधं-तिर्यक् पुरुषस्तिर्यक्स्त्री तिर्यग्नपुंसकम् । पुरिसावायं तिविहं दंडिअ कोडंबिए य पागइए । ते सोयऽसोयवाई एमेविस्थी नपुंसा य ॥ ३०॥
तत्र पुरुषापातं त्रिविधं-'दण्डिकः' राजा 'कौटुम्बिकः' श्रेष्ठ्यादिः 'प्राकृतिकः' प्रकृतिनां मध्ये यः, अयं त्रिविधः पुरुषः, तेषामेकैकस्त्रयाणामपि पुरुषाणां शौचवादी अशौचवादी चेति । 'एमेवित्थी नपुंसा यत्ति एवमेव दण्डिककौटु|म्बिकप्राकृतिकरूपाः शौचाशौचवादिनः स्त्रीनपुंसका ज्ञातव्या एभिर्भेदैभिन्नाः । इदानीं मनुष्याणां मध्ये द्वितीय परपक्षभेदं प्रतिपादयन्नाह
Jain Education in
For Personal & Private Use Only
LCbelibrary.org