________________
C
श्रीभोपनियुक्तिः द्रोणीया वृत्तिः ॥११॥
पात्रकप्रत्यु. नि. २९२| २९५ भा. १७५.
इदानीं तत्पात्रक पात्रकेसरिकया-मुखवस्त्रिकया तिस्रो वारा बाह्यतः प्रमृज्य संपूर्णास्ततो हस्ते स्थापयित्वाऽभ्यन्तरतस्त्रयो वाराः पुनः समन्ततः 'सई तु पप्फोडे' ति सकृद्-एकां वारामधोमुखां कृत्वा बुध्ने प्रस्फोटयेत्, एवं केचिदाचार्या ब्रुवते, केचित्पुनराचार्या एवं भणन्ति, यदुत तिम्रो पाराःप्रस्फोटनीयं, एतदुक्तं भवति-एकां वारां प्रमृज्य पश्चादधोमुखं प्रस्फोव्यते पुनरपि प्रमृज्य प्रस्फोव्यते ३, एवं तास्तिस्रो वाराः प्रस्फोटनीयं । तच्च पात्रकं भुव उपरि कियहूरे प्रत्युपेक्षणीयमित्यत आह 'चउरंगुल भूमि' चतुर्भिरङ्गुलै व उपरि धारयित्वा प्रत्युपेक्षणीयं, मा भूत्पतनभङ्गभयं स्यादिति । एवं तावत्प्रत्यूषसि वस्त्रपात्रप्रत्युपेक्षणा उक्का, इदानीमुपधि पात्रकं च प्रत्युपेक्ष्य किमुपधेः कर्त्तव्यं? क्व वा पात्रकं स्थापनीयमित्यत आहविटिअबंधणधरणे अगणी तेणे य दंडियक्खोभे । उउबद्धधरणवंधण वासासु अबंधणा ठवणा ॥ २९५ ॥
उपधिविण्टिकानां बन्धनं कर्त्तव्यं, 'धरण' त्ति पात्रकस्य चात्मसमीपे-आत्मोत्सङ्गे धरणं कार्यम् , अनिक्षिप्तमित्यर्थः, किमर्थं पुनरेतदेषं क्रियते ? यदुषधिका बध्यते पात्रकमनिक्षिप्तं क्रियत इति?, उच्यते, अगणि' सि 'अग्निभयात्' प्रदीपनभयात् स्तेनकभयात् दण्डिकक्षोभाच्च एतदेवं क्रियते, कस्मिन् पुनः काले क्रियते कस्मिन् पुनः काले एतदेवं न क्रियते इत्यत आह-'उउवद्ध' ऋतुबद्ध उच्यते शीतकाल उष्णकालश्च, तत्र पात्रकधरणमुपधेश्च बन्धनं कर्त्तव्यं, 'वासासु' ति वर्षाकाले 'अबंधन' त्ति उपधेरबन्धनं कर्त्तव्यं-उपधिर्न बध्यते, 'ठवण' त्ति पात्रकं च निक्षिध्यते-एकदेशे स्थाप्यते, प्रयोजनमुपधे रवन्धने पात्रकस्य च निक्षेपणे वक्ष्यति । इदानीं भाष्यकारो व्याख्यानयन्नाहरयताण माण धरणा उप्रवद्धे निक्खिवेज चासामु । अगणीनेणभएण व रायक्खोभे विराहणया ॥१७५॥ (भा)
ECASSES
॥११८॥
Jain Educatio
n
al
For Personal & Private Use Only
Amlanelibrary.org