SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Jain Education शब्दाच्छिवचन्द्र । दिग्रहः, 'अणुक्कम'त्ति अनुक्रमादिति अनुक्रमेणैव - परिपाठ्या, तृतीयार्थे पञ्चमी, 'कारकाणि' कुर्वन्तीति कारकाणि - उदाहरणान्युच्यन्ते, चत्वारीति यथासंख्येनैवेति ॥ 'अनुग्रहार्थं सुविहितानाम्' इति यदुक्तं तद्व्याख्यानायो - दाहरणगाथा - बालाईणणुकंपा संखडिकरणंमि होअगारीणं । ओमे य बीयभत्तं रण्णा दिन्नं जणवयस्स ॥ १३ ॥ ( भा० ) 'एवमित्युपन्यासाद्यथेति गम्यते, ततोऽयमर्थो भवति - यथा ह्यगारिणामनुकम्पा भवति बालादीनामुपरि संखडिकरणे, एवं स्थविरैः साधूनामनुकम्पार्थमुपदिष्टौघनिर्युक्तिरिति संबन्धः । अधुनाऽक्षरगमनिका - बालाः शिशवोऽभिधीयन्ते, ते आदिर्येषाम् आदिशब्दात्कर्मकरादिपरिग्रहः, तेषां बालादीनामुपर्यनुकम्पा दयेत्यर्थः, 'संखडिकरणे' संखड्यन्ते प्राणिनो यस्यां सा संखडिः, अनेकसत्त्वव्यापत्तिहेतुरित्यर्थः, कृतिः करणं संखड्याः करणं संखडिकरणं तस्मिन् संखडिकरणे यथाऽनुकम्पा भवति, केषाम् ? इत्याह-' अगारिणां' अगारं विद्यते येषां तेऽगारिणस्तेषामगारिणां तथाहि यद्भोजनं प्रहरत्रयोद्देशे भवति तस्मिन् यदि बालादीनां प्रथमालिका न दीयते ततोऽतिबुभुक्षाक्रान्तानां केषाञ्चिन्मूर्च्छागमनं भवति केचित्पुनः कर्मादि कर्तुं न शक्नुवन्ति ततोऽनुकम्पार्थे प्रथमालिकाद्यसौ गृहपतिः प्रयच्छति, अस्यैव दर्शनार्थं दृष्टान्तान्तरमाह- 'ओम' इत्यादि, अवमं- दुर्भिक्षं तस्मिन्नवमे बीजानि - शाल्यादीनि भक्तम्-अन्नं बीजानि च भक्तं च बीजभक्तमेकवद्भावः 'राज्ञा' नरपतिना दत्तं कस्य ? तदाह - जनपदस्य ॥ - कस्यचिद्राज्ञो विषये दुर्भिक्षं प्रभूतवार्षिकं संजातं, ततस्तेन दुर्भिक्षेण सर्वमेव धान्यं क्षयं नीतं, लोकश्च विषण्णः, तस्मिन्न For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy