________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
अल्पाक्षरत्वादिभेदाः भा.११-१२
अप्पक्खरं महत्थं १ महक्खरऽप्पत्थ २ दोसुऽवि महत्थं ३।
. दोसुऽवि अप्पं च ४ तहा भणि सत्थं चउविगप्पं ॥११॥ (भा०) अत्र चतुर्भङ्गिका-अल्पान्यक्षराणि यस्मिन् तदल्पाक्षरं, स्तोकाक्षरमित्यर्थः, 'महत्थं' इति महानर्थो यस्मिन् महार्थं प्रभूतार्थमित्यर्थः, तत्रैकं शास्त्रमल्पाक्षरं भवति महार्थ च प्रथमो भङ्गः १, अथान्यत् किंभूतं भवति ?-'महक्खरमप्पत्थ महाक्षरं, प्रभूताक्षरमिति हृदयं, अल्पार्थ, स्वल्पार्थमिति हृदयं, द्वितीयो भङ्गः २, तथाऽन्यत् किंभूतं भवति ?-'दोसुवि महत्थं' द्वयोरपीति अक्षरार्थयोः, श्रुतत्वादक्षरार्थोभयं परिगृह्यते, एतदुक्तं भवति-प्रभूताक्षरं प्रभूतार्थ च तृतीयो भङ्गः ३, तथाऽन्यत् किंभूतं भवति ? इत्याह-'दोसुवि अप्पं च तहा' द्वयोरप्यल्पमक्षरार्थयोः, एतदुक्तं भवति-अल्पाक्षरं अल्पार्थ चेति ४ । 'तथे ति तेनागमोक्तप्रकारेण 'भणितं' उक्तं शास्त्रं 'चतुर्विकल्पं चतुर्विधमित्यर्थः॥ अधुना चतुर्णामपि भङ्गकानामुदाहरणदर्शनार्थमिदं गाथासूत्रमाहसामायारी ओहे नायज्झयणा य दिहिवाओ य । लोइअकप्पासाई अणुकमा कारगा चउरो॥१२॥(भा०) __ ओघसामाचारी प्रथमभङ्गके उदाहरणं भवति, पूर्वापरनिपातादेवमुपन्यासः कृतः १, ज्ञाताध्ययनानि षष्ठाङ्गे प्रथमश्रुतस्कन्धे तेषु कथानकान्युच्यन्ते ततः प्रभूताक्षरत्वमल्पार्थत्वं चेति द्वितीयभङ्गके ज्ञाताध्ययनान्युदाहरणं, चशब्दादन्यच्च यदस्यां कोटौ व्यवस्थितं २, दृष्टिवादश्च तृतीयभङ्गक उदाहरणं, यतोऽसौ प्रभूताक्षरः प्रभूतार्थश्च, चशब्दात्तदेकदेशोऽपि ३, चतुर्थभङ्गोदाहरणप्रतिपादनार्थमाह-'लोइयकप्पासादी' इति लौकिक चतुर्थभङ्गे उदाहरणं, किंभूतम् ?-कार्पासादि, आदि
SISUSAHA
॥१०॥
Jain Education
For Personal & Private Use Only
nelibrary.org