________________
INESCRIKARACHAR
परिसुवहिविवच्चासो सागरिए करिज उवहिवच्चासं । आपुच्छित्ताण गुरुं पहुबमाणेयर वितहं ॥ २७१॥ । तत्र विपर्यासो द्विविधः-पुरुषविपर्यास उपधिविपर्यासश्च, तत्रोपधिविपर्यासप्रतिपादनायाह-'सागरिए करेज उवहिवच्चासं 'सागारिके स्तेनादिके सत्यागत इति विपर्यासः क्रियते प्रत्युपेक्षणायाः, प्रथमं पात्रकाणि प्रत्युपेक्ष्यन्ते पश्चाद्धस्त्राणि । एवमयं प्रत्युषसि विपर्यासः प्रत्युपेक्षणायाः, एवं विकालेऽपि सांगारिकानागन्तुकान् ज्ञात्वा । इदानीं पुरुषविपर्यास उच्यते, तत्राह-'आपुच्छित्ताण गुरुं पहुवमाणे आपृच्छ्य गुरुमात्मीयोपधि ग्लानसत्कां वा प्रत्युपेक्षते, कदा ? अत आह-'पहुव्वमाणे' यदा आभिग्रहिका उपधिप्रत्युपेक्षकाः 'पहुवंति' पर्याप्यन्ते तदैवं करोति 'इतरे वितहति | इतरेऽभिग्रहिका यदा न सन्ति तदा प्रथममात्मीयामुपधिं प्रत्युपेक्षमाणस्य 'वितथं' अनाचारो भवतीत्यर्थः, तत्र न केवलं प्रत्युपेक्षणाकाले उपधिविपर्यासं कुर्वतो वितथं-अनाचारो भवति । एवं च वितथं भवति__ पडिलेहणं करेंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥ २७२॥
प्रत्युपेक्षणां कुर्वन्मिथः कथां मैथुनसंबद्धां करोति जनपदकथां वा, प्रत्याख्यानं वा श्रावकादेर्ददाति, 'वाचयति' कञ्चित्साधुं पाठयतीत्यर्थः, 'सयं पडिच्छति वा' स्वयं वा प्रतीच्छति-आत्मना वाऽऽलापं दीयमानं प्रतीच्छति-गृह्णाति । एतच्च कुर्वन् षण्णामपि कायानां विराधको भवति, अत आह
पुढवी आऊक्काए तेऊवाऊवणस्सइतसाणं । पडिलहणापमत्तो छहंपि विराहओ होइ ॥ २७३ ॥ सुगमा ॥ कथं पुनः कायानां षण्णामपि विराधकः, अत आह
dain Educatio
n
al
For Personal & Private Use Only
D
inelibrary.org