SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः पतिलेखना विधिः नि. २७१-२७६ ॥११२॥ AAMKARAN घडगाइपलोट्टणया महिअ अगणी य बीय कुंथाई । उद्गगया व तसेयर ओमुय संघट्ट झावणया॥ २७४॥ | स हि साधुः कुम्भकारशालादौ वसतौ प्रत्युपेक्षणां कुर्वन्ननुपयुक्तस्तोयघटादि प्रलोठयेत् , सच तोयभृतो घटो मृत्तिकाग्निबीजकुन्थ्वादीनामुपरि प्रलुठितस्ततश्चैतान् व्यापादयेत् , यत्राग्निस्तत्र वायुरप्यवश्यंभावी, अथवाऽनया भङ्ग्या षण्णां कायानां व्यापादकः 'उदगगता व तसेतर'त्ति योऽसौ उदकघटः प्रलोठितस्तद्गता एव असा भवन्ति पूतरकादयः 'इतर'त्ति वनस्पतिकायश्च, तथा वस्त्रान्तेन चोल्मुकं 'सङ्घयेत्'चालयेत् ततश्च 'झावणय'त्ति तेनोल्मुकेन चालितेन सता प्रदीपनक संजातं ततश्च संयमात्मनोविराधना जातेति । अथोपयुक्तः प्रत्युपेक्षणां करोति तत एतेषां जीवनिकायानामाराधको भवति, एतदेवाह| पुढवी आउक्काए तेऊवाऊवणस्सइतसाणं । पडिलेइणमाउत्तो छण्हंऽपाराहओ होइ ॥२७॥ इ. सुगमा ॥ नवरम् 'आराधकः' अविराधको भवति । न केवलं प्रत्युपेक्षणा, अन्योऽपि यः कश्चिद् व्यापारो भगवन्मते सम्बक् प्रयुज्यते स एव दुःखक्षयायालं भवति, एतदेवाहजोगो जोगो जिणसासणंमि दुक्खक्खया पउंजते । अण्णोण्णमवाहाए असवत्तो होइ कायबो ॥ २७६ ॥ योगो योग इति वीप्सा, ततश्च व्यापारो जिनशासने प्रयुज्यमानो दुःखक्षयाय 'प्रयुज्यमानः' क्रियमाणः, कथम् । 'अन्योन्याबाधया' परस्परापीडया, एतदुक्तं भवति-यथा क्रिया क्रियमाणाऽन्येन क्रियान्तरेण न बाध्यते एवमन्योऽन्याबाधया प्रयुज्यमानः 'असवत्तो' असपत्नः अविरुद्धो भवति कर्त्तव्यः । इदानीं फलं प्रदर्शयन्नाह ASOSAUSAISUUSHOSAS ॥११२॥ Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy