SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१११॥ RASSEGRUOTSISSASS496 | क्रियते ततोऽशुद्धता भवति, वेलायां च न्यूनायामधिकायां वा प्रत्युपेक्षणायां क्रियमाणायामशुद्धा भङ्गका भवन्ति । एवं प्रतिलेखना ते न्यूनाधिका भवन्ति विज्ञेयाः। आह-वेलायां न्यूनाधिकायां प्रत्युपेक्षणायां क्रियमाणायां दोष उक्तस्तत्कस्यां पुनर्वे- विधिःभा. लायां प्रत्युपेक्षणा कर्त्तव्या?, तत्र केचनाहुः-'अरुणावासग पुवं' अरुणादावश्यक पूर्वमेव कृत्वा ततः अरुणोद्मनसमये-प्रभास्फाटनवेलायां प्रत्युपेक्षणा क्रियते१,अपरे त्वाहुः-अरुणोद्गमे सति-प्रभायां स्फाटितायां सत्यामावश्यक पूर्व' प्रथम | नि.२६८कृत्वा ततः प्रत्युपेक्षणा क्रियते.२, अन्ये त्वाहु:-'परोप्परं ति परस्परं यदा मुखानि विभाव्यन्ते तदा प्रत्युपेक्षणा क्रियते ३, २६९-२७० अन्ये त्वाहुः-'पाणिपडिलेहा' यस्यां वेलायां पाणिरेखा दृश्यन्ते तस्यां वेलायां प्रत्युपेक्षणा क्रियते ४ । सिद्धान्तवाद्याह एते उ अणाएसा अंधारे उग्गएविहु न दीसे । मुहरयनिसिजचोले कप्पतिगदुपट्टथुई सूरो ॥ २७ ॥ | ते सर्व एव 'अनादेशा' असत्पक्षाः, यतः 'अंधारे उग्गएविहु न दीसे' अन्धकारे प्रतिश्रये उद्गतेऽपि सूर्ये रेखा न दृश्यन्ते तस्मादसत्पक्षोऽयं, शेषं पक्षत्रयं सान्धकारत्वादेव दूषितं द्रष्टव्यं, तत्कस्यां पुनर्वेलायां प्रत्युपेक्षणा कार्या ? इत्यत आह-'मुहरयनिसजचोले कप्पतिगदुपट्टथुति सूरों' 'मुख' इति मुखवस्त्रिका 'रय' इति रजोहरणं 'निसेजा' रयहरणस्योपरितनाः 'चोले'त्ति चोलपट्टकः 'कप्पतिग'त्ति एक और्णिको द्वौ सौत्रिकी, 'दुपट्टत्ति संस्तारकपट्ट उत्तरपट्टकश्च 'थुइ'त्ति प्रतिक्रमणप्रतिसमाप्तौ ज्ञानदर्शनचारित्रार्थ स्तुतित्रये दत्ते सति एतेषां मुखवस्त्रिकादीनां प्रत्युपेक्षणासमाप्त्यन-II |॥११ ॥ न्तरं यथा सूर्य उद्गच्छति एष प्रत्युपेक्षणाकालविभाग इति । यदुक्तं प्रागुपधेर्विपर्यासः प्रत्युपेक्षणायां न कर्त्तव्य इत्युत्सर्गतोऽभिहितं, तस्यापवादमाह MASSACROSSSCLASS* Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy