________________
'अमोसलि'न्ति न मोसली क्रिया यस्मिन् प्रत्युपेक्षणे तदमोसलि प्रत्युपेक्षणं, यथा मुशलं झटिति ऊर्ध्व लगति अधस्तिर्यक | च, न एवं प्रत्युपेक्षणा कर्त्तव्या, किन्तु यथा प्रत्युपेक्षमाणस्य जी पीढिषु न लगति म च तिर्यकुडे म च भूमौ तथा। कर्त्तव्यं । 'छप्पुरिमा' तत्र वस्त्रं चक्षुषा निरूप्य-अर्वागभाग निरूप्य त्रयःपुरिमाः कर्त्तव्याः, तथा परावर्ची-परभागं निरूप्य पुनरपरेऽपि त्रयः पुरिमाः कर्तव्याः, एवं एतेषु पुरिमाः, षड्वाराः प्रस्फोटनानीत्यर्थः, 'नव खोड'त्ति नव वाराः खोटकाः कर्त्तव्याः पाणेरुपरि 'पाणी पाणपमजणं'ति प्राणिनां-कुन्थ्वादीनां पाणौ-हस्ते प्रमार्जनं नवैव वाराः कर्त्तव्याः । इयं द्वारगाथा, इदानीं भाष्यकारः पूर्वार्द्ध व्याख्यानयन्नाहवस्थे अप्पाणंमि अचउहा अणचाविअंअवलिअंच।अणुबंधि निरंतरया तिरिउड्डह य घट्टणा मुसली॥१६॥मा | वस्त्रे आत्मनि चेत्यनेन पदद्वयेन भङ्गकचतुष्टयं सूचितं भवति, ततश्चानेन प्रकारेण अनायितं चतुर्की भवति, कथं !, वत्थं अणच्चाविअं अप्पाणं च अणच्चाविअं एगो भंगो १, तथा वत्थं अणच्चावि अप्पाणं च णच्चाविसं २, तहा वत्थं णच्चाविअं अप्पाणं अणच्चाविअं ३, तथा वत्थंपि नच्चाविअं अप्पाणंपि नच्चाविअं ४, एस चउत्थो, एत्थ पढमो भंगो सुद्धो। एवं अवलिअंपि-अवलितेऽपि चत्वारो भङ्गाः, यथा वत्थं अवलिअं अप्पाणं च अवलिअं एगो १, तहा वत्थं अवलिअं अप्पाणं च वलिअं २, तहा अप्पाणं अवलिअं वत्थं वलिअं३, अप्पाणपि वलिअं वत्थंपि वलिअं४, एत्थविपढमो भंगो सुद्धो। 'अणुबंधि निरंतरय'त्ति अनुबन्धो निरन्तरतोच्यते, ततश्च न च अनुबन्धेन-नैरन्तर्येण प्रत्युपेक्षणा कर्त्तव्या। इदानीममोसलिं व्याख्यानयन्नाह-'तिरिउड्ढह य घट्टणा मुसलि'त्ति त्रिविधा मुसली-तिर्यग्घटना १ ऊर्द्धघट्टना २ अघो
मो. १९ Jain Education
For Personal & Private Use Only
inelibrary.org