________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥१०९॥
घट्टना ३ चेति, तत्र प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यक् कुड्यादि घट्टयति ऊर्द्ध कुट्टिकादिपटलानि घट्टयति अधो भुवं घट्टयति, एवं न मुशली- न किञ्चित्प्रत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति । इदं तावत्पूर्वोक्तमनर्त्तायितादि कर्त्तव्यं, इदं तु वक्ष्यमाणं न कर्त्तव्यं, किं तद् ?, इत्याह
आरभडा सम्मद्दा वज्जेयवा य मोसली तइया । पप्फोडणा चउत्थी विक्खित्ता वेइया छट्ठा ॥ २६६ ॥ 'आरभड'त्ति आरभटा प्रत्युपेक्षणा न कार्या, 'सम्मद' त्ति संमर्दा न कार्या, वर्जनीया च मोसली तृतीया, प्रस्फोटना चतुर्थी, विक्षिप्ता पञ्चमी वर्जनीया, वेदिका षष्ठी वर्जनीयेति द्वारगाथेयं । इदानीं प्रतिपदं भाष्यकारो व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽह—
वितहकरणे च तुरिअं अण्णं अण्णं व गेण्हणाऽऽर भडा। अंतो व होज कोणा निसियण तत्थेव संमद्दा ॥ १६२॥ (भा०)
वितथं-विपरीतं यत्करणं तदारभडाशब्देनोच्यते सा चारभटा प्रत्युपेक्षणा न कार्या, विपरीता प्रत्युपेक्षणा न कार्ये - त्यर्थः, वा- विकल्पे, इयं वाऽऽरभटोच्यते यदुत त्वरितः -आकुलं यदन्यान्यवस्त्रग्रहणं तदारभटाशब्देनोच्यते सा च प्रत्युपेक्षणा न कार्या, त्वरितमन्यान्यवस्त्रग्रहणं न कर्त्तव्यमित्यर्थः । " आरभडे " ति भणिअं, इदानीं संमर्दा व्याख्यायते, तत्राह - 'अंतो व होज्ज कोणा निसियण तत्थेव संमद्दा' अन्तः - मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा संमर्दोच्यते, सा प्रत्युपेक्षणा तादृशी न कार्या, 'णिसीयण तत्थेव'त्ति तत्रैव-उपधिकायां उपविश्य यत्प्रत्युपेक्षणाकरणं सा वा संमर्दोच्यते, सा च न कर्त्तव्येति । " संमद्दे" ति भणिअं, इदानीं मोसलीवर्जन प्रतिपादनायाह
Jain Education International
For Personal & Private Use Only
प्रतिलेखना विधिः भा. १६१-१६२ नि. २६६
॥१०९॥
www.jainelibrary.org