________________
प्रतिपादनार्थः । उपकरणादेर्यहणनिक्षेपणसंक्रमणेषु यत्स्थानं तस्य निरीक्षणप्रमार्जनमुक्तं, इदानीमुपकरणप्रत्युपेक्षणाप्रतिपादनायाह
उवगरण वत्थपाए वत्थे पडिलेहणं तु वोच्छामि । पुवण्हे अवरण्हे मुहणंतगमाइ पडिलेहा ॥ १५८ ॥ (भा०) उपकरणप्रत्युपेक्षणा द्विविधा - ' वस्थे पाए 'त्ति वस्त्रविषया पात्रविषया चेति, तत्र तावद्वस्त्रविषया प्रत्युपेक्षणा उच्यते, यतः प्रव्रजतः प्रथमं वस्त्रोपकरणमेव दीयते न पात्रोपकरणं, सा च वस्त्रप्रत्युपेक्षणा कस्मिन् काले भवतीत्यत आह'पुण्हे अवरण्हे' पूर्वाह्णे वस्त्रप्रत्युपेक्षणा भवत्यपराह्णे च किमादिका पुनः प्रत्युपेक्षणा भवतीत्यत आह- 'मुहपोत्तीयमादि | पडिलेह त्ति मुखवस्त्रिका आदौ यस्याः प्रत्युपेक्षणायाः सा मुखवस्त्रिकादिका प्रत्युपेक्षणा, कदा ?, पूर्वाह्णेऽपराह्णे चेति, तत्र मुखवस्त्रिकाऽऽदिवस्त्रप्रत्युपेक्षणायामयं विधिः
उहुं थिरं अतुरिअं सर्व्वं ता वत्थ पुच पडिलेहे । तो बिइअं पप्फोडे तइयं च पुणो पमजेज्जा ॥ २६४ ॥ तत्र वस्त्रोद्धं कायोर्द्ध च आचार्यमतेन भविष्यति, चोदकमतेन वक्ष्यमाणं, तत्र वस्त्रोद्धं कायोर्द्ध च यथा भवति तथा प्रत्युपेक्षेत, 'थिरं'ति यथास्थितं सुगृहीतं कृत्वा प्रत्युपेक्षेत, 'अतुरियं'ति अत्वरितं स्तिमितं प्रत्युपेक्षेत - निरीक्षेत, 'सर्व'ति सर्व-कृत्स्नं वस्त्रं तावत्पूर्व-प्रथमं प्रत्युपेक्षेत-चक्षुषा निरीक्षेत, एवं तावदर्वाग्भागः, परभागोऽपि परावृत्त्य एवमेव चक्षुषा निरीक्षेत, 'तो बिइयं परफोडे'त्ति ततो द्वितीयायां वारायां प्रस्फोटयेद्वस्त्रं षट् पुरिमाः कर्त्तव्या इत्यर्थः, 'तइयं च पुणो पमज्जेज्ज' ति तृतीयायां वारायां हस्तगतान् प्राणिनः प्रमार्जयति । इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org