________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
स्थानप्रतिलेखनाभा. १५३-१५७
प्रमृज्य कायोत्सर्गस्थानं ततस्तां निषद्यां सागारिकपुरत एकान्ते मुञ्चति, गते च तत्र गृह्णाति । उक्तमूस्थानं, इदानीं निषीदनास्थानं प्रतिपादयन्नाहसंडास पमजित्ता पुणोवि भूमि पमजिआ निसिए।राओ य पुवमणि तुयट्टणं कप्पई न दिवा ॥१५५॥ (भा०) | सण्डासं-जोोरन्तरालं प्रमृज्य उत्कुटुकः स्थित्वा पुनर्भुवं प्रमृज्य निषीदेत् । उक्तं निषीदनास्थानं, इदानीं त्वग्वर्त्तनास्थानमुच्यते, रात्री पूर्वोक्तमेव त्वग्वतनं, दिवा तु पुनस्त्वग्वतनं न कल्पते, नोक्तं भगवद्भिः, किं सर्वथैव न कल्पते ? इति, न इत्याहअद्धाणपरिस्संतो गिलाणवुड्डा अणुण्णवेत्ताणं । संथारुत्तरपट्टो अत्थरण निवजणाऽऽलोगं ॥ १५६॥ (भा०) __ अद्धानपरिश्रान्तस्तथा ग्लानो वृद्धश्च, एते त्रयोऽप्यनुज्ञाप्याचास्तितश्च संस्तारकोत्तरपट्टौ आस्तीर्य 'निवजण त्ति स्वपन्ति 'आलोक'न्ति सावकाशं मुक्त्वाऽभ्यन्तरे स्वपन्ति,मा भूत् सागारिकस्य शङ्का स्यात् , यदुत-नूनं रात्री सुरतप्रसङ्गे स्थितोऽयमासीत् , कुतोऽन्यथाऽस्य निद्रेति । त्वग्वर्तनास्थानमुक्तं, तत्प्रतिपादनाच्च स्थानद्वारमुक्तम् । इदानीमुपकरणप्रतिपादनायाहउवगरणाईयाणं गहणे निक्खेवणे य संकमणे । ठाण निरिक्खएमजण काउं पडिलेहए उवहिं ॥१५७॥ (भा०) | उपकरणादीनां 'ग्रहणे' आदाने यत्स्थानं तन्निरीक्ष्य-निरूप्य प्रमृज्य च उपधिः प्रत्युपेक्षणीय इत्यत्र संबन्धः, तथा उपकरणादीनां च निक्षेपणे च यत्स्थानं तन्निरीक्ष्य प्रमृज्य चोपधिः प्रत्युपेक्षणीयः, तथा उपकरणादीनामेव यत्संक्रमणं-स्थानास्थानान्तरसंक्रमणं तस्मिन् यत्स्थानं तन्निरीक्ष्य प्रमार्जनं कृत्वा उपधिं प्रत्युपेक्षेत, योऽयमादिशब्दः अयमुपधिप्रकार-||
*USASSASSASS
॥१०७॥
॥१०७॥
Jain Education International
For Personal & Private Use Only
पw.jainelibrary.org