SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Jain Education उच्चाराई' ऊर्द्धस्थानकं कायोत्सर्गः, स चोच्चारादीन् कृत्वा, आदिग्रहणात्प्रश्रवणं कृत्वा ततश्च गुरुमूले आगत्य प्रतिक्रा -! मतः, काम ? - ईर्यापथिकां प्रतिक्रामतो भवति ऊर्द्धस्थानम् ॥ पक्खे उस्सासाई पुरतो अविणीय मग्गओ वाऊ । निक्खमपवेसवजण भावासपणे गिलाणाई ॥ १५३॥ (भा०) कायोत्सर्ग च कुर्वता आचार्यपक्षके - पक्षप्रदेशे न स्थातव्यं, यतो गुरुरुच्छ्रासेनाभिहन्यते, नापि पुरतः स्थातव्यं, यतः पुरतोऽविनीतत्वमुपजायते गुरुमाच्छाद्य तिष्ठतो, नापि मार्गतो- गुरोः पृष्ठतो यतो गुरोर्वायुनिरोधेन ग्लानता भवति, वायुरपानेन निर्गच्छति, कथं पुनः स्थातव्यं ?, तत्र निष्क्रमप्रवेशस्थानं वर्जयित्वा कायोत्सर्ग करोति, 'भावासन्ने' त्ति य | उच्चारादिना पीडितः स च निर्गमे रुद्धे सम्ज्ञानिरोधं करोति, ततश्च ग्लानता भवति, अथ निर्गच्छति ततः कायोत्सर्गभङ्गः ॥ भारे वेयणखमगुण्हमुच्छपरिया व छिंदणे कलहो । अवावाहे ठाणे सागारपमज्जणा जयणा ॥ १५४ ॥ ( भा० ) तथा च मार्गे कायोत्सर्गकरणे एते दोषाः, भिक्षामटित्वा कश्चिदायातः साधुः, स भारे सति यदि प्रतिपालयति ततो वेदना भवति, तथा क्षपकः कश्चिद्भक्तं गृहीत्वाऽऽयातस्तथाऽन्य उष्ण संतप्त आयातः, अनयोर्द्वयोरपि प्रतिपालयतोः | सतोर्यथासङ्ख्यं मूर्च्छापरितापौ भवतः, क्षपकस्य मूर्च्छा उष्णतप्तस्य परितापः, अथैते कायोत्सर्ग छित्त्वा प्रविशन्ति ततः परस्परं कलहो भवति, तस्मादव्याबाधे स्थाने कायोत्सर्गः कर्त्तव्यः एतद्दोषभयात् । 'सागारपमज्जणा जयण'त्ति, यदा तु पुनः सागारिको भवति कायोत्सर्ग कुर्वतस्तदाऽप्रमार्जनमेव करोति, यतनया वा प्रमार्जयति, कथं ?, रजोहरणवाह्यनिषद्यया edonal For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy