SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ महार्थी चेति । उक्तं स्थानस्थितद्वारं, तत्प्रतिपादनाच्च व्याख्यातेयं गाथा, यदुत "सिंगारवितियवसही ततिए सण्णी " इत्येवमादिका, तत्प्रतिपादनाचोक्ता अनेके प्रत्युपेक्षकाः, तत्प्रतिपादनाञ्च्चोक्तं प्रत्युपेक्षकद्वारमिति, तत्र यदुक्तम् - " एतो, पडिलेहणं वुच्छं" तामिदानीं व्याख्यानयन्नाह दुविहा खलु पडिलेहा छउमत्थाणं च केवलीणं च । अभितर बाहिरिआ दुविहा दवे य भावे य ।। २५६ ।। द्विविधा प्रत्युपेक्षणा भवति, कतमेन द्वैविध्येनेत्यत आह-छद्मस्थानां संबन्धिनां केवलिनां च सा चैकैका द्विविधाअभ्यन्तरा बाह्या व याऽसौ छद्मस्थानां सा द्विविधा बाह्या अभ्यन्तरा च, या च केवलिनां साऽपि अभ्यन्तरा बाह्या च । 'दवे य भावे य'त्ति याऽसौ बाह्या प्रत्युपेक्षणा सा द्रव्यविषया याऽप्यभ्यन्तरा सा भावविषयेति । तत्र केवलिप्रत्युपेक्षणां प्रतिपादयन्नाह पाहि उ संसत्ता पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा ॥ २५७ ॥ प्राणिभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनां, 'संसन्तमसंसत्त'त्ति संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां प्रत्युपेक्षणा भवतीति । आह- 'यथोपन्यासस्तथा निर्देश' इति न्यायात्प्रथमं छद्मस्थानां व्याख्यातुं युक्तं पश्चात्केवलिनामिति, उच्यते, प्रधानत्वात्केवलिनां प्रथमं व्याख्या कृता पश्चाच्छद्मस्थानामिति, आह-तत्कथं प्रथममेवैवमुपन्यासो न कृतः इति, उच्यते, तत्पूर्वकाः केवलिनो भवन्तीत्यस्यार्थस्य ज्ञापनार्थमिति ॥ अनेन वा कारणेन केवलिनः प्रत्युपेक्षणां कुर्वन्तीति प्रतिपादयन्नाह - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy