________________
सङ्घे दहुं उग्गाहिएण ओयरिअ भयं समुप्पज्जे । तम्हा तिहु एगो वा उग्गाहिअ चेइए वंदे ॥ ११८ ॥ ( भा० ) ते हि भक्तार्थिनः श्रावककुलेषु चैत्यवन्दनार्थं व्रजन्तः यदि सर्व एव पात्रकाण्युद्धाय प्रविशन्ति ततः को दोष इत्यत आह-'दडुमुग्गाहिएहिं ओदरिअ'त्ति दृष्ट्वा सान् साधून् पात्रकैरुद्राहितैः औदरिका एत इति - भट्टपुत्रा इति, एवं श्रावकश्चिन्तयति । 'भयं समुप्पज्जे'त्ति भयं च श्रावकस्योत्पद्यते, यदुत कस्याहमत्र ददामि ? कस्य वा न ददामीति ?, कथं वा एतावतां दास्यामीति यस्मादेवं तस्मात् 'तिदुएगो वा' त्रय उग्राहितेन प्रविशन्ति आचार्येण सह द्वौ वा एको वा उद्भा हितेन प्रविशति चैत्यवन्दनार्थमिति । अतः -
सद्धाभंगोऽणुग्गाहियंमि ठवणाइया य दोसा उ । घरचेइअ आयरिए कइवयगमणं च गहणं च ॥ ११९ ॥ (भा०)
अथानुग्राहितपात्रका एव प्रविशन्ति, दातव्ये च मतिर्जाता श्राद्धस्य, ततश्च पात्रकाभावेऽग्रहणमग्रहणाच्च श्रद्धाभङ्गो भवति । अथैवं भणन्ति - पात्रकं गृहीत्वाऽऽगच्छामि ततश्च स्थापनादिका दोषा भवन्ति, आदिशब्दात्कदाचित्संस्कारमपि कुर्वन्ति, तस्माद्गृहचैत्यवन्दनार्थ आचार्येण कतिपयैः साधुभिः सह गमनं कार्य, ग्रहणं घृतादेः कर्त्तव्यमिति । 'पत्ताण खेत्तजयण'त्ति व्याख्यायते—
खेत्तंमि अपुमी तिट्ठाणट्ठा कहिंति दाणाई । असई अ चेइयाणं हिंडता चैव दायंति ॥ १२० ॥ ( भा० ) यदि तत्क्षेत्रमपूर्व न तत्र मासकल्पः कृत आसीत् ततः 'तिद्वाणत्थि 'त्ति त्रिषु स्थानेषु श्रावकगृहचैत्यवन्दनवेलायां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org