SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ ९४ ॥ निरूप्यन्ते, शेषाणां क्रमेण यथारत्नाधिकतया, ते च साधव आत्मीयात्मीयोपधिवेण्ट लिकानामुत्क्षेपणं कुर्वन्ति येन भूमि - भागो ज्ञायते, अस्मिन्नवसरे बाह्यतो धर्मकथी संस्तारकग्रहणार्थं प्रविशति ॥ उच्चारे पासवणे लाउय निल्लेवणे य अच्छणए । पुञ्चट्ठिय तेसि कहेऽकहिए आवरण वोच्छेओ ॥ ११६ ॥ ( भा० ) तेहि क्षेत्रप्रत्युपेक्षा उच्चाराय भुवं दर्शयन्ति ग्लानाद्यर्थे, 'पासवणे'त्ति कायिकाभूमिं दर्शयन्ति 'लाउए' त्ति तुम्बकत्रेपणभुवं दर्शयन्ति, निर्लेपनस्थानं च दर्शयन्ति, 'अच्छणए'त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते 'पूर्वस्थिताः' क्षेत्रप्रत्युपेक्षकाः, एवं 'तेषां' आगन्तुकानां कथयन्ति । 'अकहिए'ति यदि न कथयन्ति ततः 'आयरण वोच्छेओ'त्ति अस्थाने कायिकादेराचरणे सति व्यवच्छेदस्तद्रव्यान्यद्रव्ययोः, वसतेर्निर्द्धादयतीति ॥ भत्तद्विआ व खवगा अमंगलं चोयए जिणाहरणं । जइ खमगा वंदता दायंतियरे विहिं वोच्छं ॥ ११७ ॥ (भा० ) ते हि श्रमणाः क्षेत्रं प्रविशन्तः कदाचिद्भक्तार्थिनः कदाचित्क्षपका उपवासिका इत्यर्थः, तत्रोपवासिकानां प्रविशतां 'अमंगलं चोयए'त्ति चोदक इदं वक्ति, यदुत क्षेत्रे प्रविशतां अमङ्गलमिदं यदुपवासः क्रियते, तत्र 'जिनाहरण' मिति जिनोदाहरणं, यथा हि जिना निष्क्रमणकाले उपवासं कुर्वन्ति न च तेषां तदमङ्गलं, किन्तु प्रत्युत मङ्गलं तत्तेषामेवमिदमपीति । इदानीं यदि क्षपकास्तस्मिन् दिवसे साधव उपवासिकास्तत्र च सन्निवेशे यदि श्रावकाः सन्ति ततस्तद्गृहेषु चैत्यानि वन्दन्तो दर्शयन्ति, कानि ? - स्थापनादीनि कुलानि आगन्तुकेभ्यः, 'इयरे'त्ति भक्तार्थिषु यो विधिस्तं वक्ष्ये । कश्चासौ विधिरित्यत आह Jain Educationonal For Personal & Private Use Only धर्मकथाः भा. ११४११५ वसतिविभागः भा. ११६ कुलस्थाप ना भा. ११७ ॥ ९४ ॥ nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy