________________
श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ८९ ॥
'आवश्यक' प्रतिक्रमणं कुर्वताम् 'पवंचए 'त्ति ते सागारिका उद्घट्टकान् कुर्वन्ति, तथा ध्यानयोगव्याघातश्च भवतिचलनमापद्यते चेतो यतः । दारं । अहिगरणं भण्णइ - 'असहणे 'ति कश्चिद् 'असहनः' कोपनो भवति 'अपरिणतो वा' सेहप्रायः, एते राटिं सागारिकैः सह कुर्वन्ति, ततश्च भाजनानि पात्रकाणि तद्भेदो - विनाशो भवति, षट् कायाश्च विराध्यन्ते । दारं । 'तदुभयं 'ति व्याख्यायते—
सुत्तत्थकरण नासो करणे उहुंचगाइ अहिगरणं । पासवणिअरनिरोहे गेलनं दिट्ठि उड्डाहो || २२१ ॥ 'सुत्तत्थअकरण' त्ति सूत्रार्थपौरुष्यकरणे नाशः - तयोरेव विस्मरणम् । अथ सूत्रार्थपौरुष्यौ क्रियेते ततश्च 'उहुंचकादि' उद्घट्टकादि कुर्वन्ति । ततश्चासहना राटिं कुर्वन्ति, ततोऽधिकरणदोष इति । दारं । “उच्चारकाइ अनिरोहो "त्ति व्याख्यायते - ' पासवणि 'त्ति 'प्रश्रवणस्य' कायिकायाः 'इयर'त्ति पुरीषस्य च निरोहे 'गेलन्नं' ग्लानत्वं भवति । अथ व्युत्सृजन्ति ततो 'दिट्ठे उड्डाहो' त्ति सागारिकैर्दृष्टे सति 'उड्डाहः' उपघातः प्रवचनस्य भवति । " संजम आयविराहण" त्ति व्याख्यायते - मा दिच्छहिंति तो अप्पडिलिहिए ( थंडिल्ले ) दूर गंतु वोसिरति । संजम आयविराहणगहणं आरक्खितेणेहिं ॥ २२२ ॥
अथ सागारिका मां मा द्राक्षुरितिकृत्वाऽस्थण्डिल एव दूरे गत्वा व्युत्सृजति ततः संयमात्मनोर्विराधना भवति, ग्रहणं चारक्षिकाः कुर्वन्ति । 'तेण'ति स्तेनका वा ग्रहणं कुर्वन्ति । दारं । "संकातेण "त्ति व्याख्यायते - ओणयपमज्जमाणं दहुं तेणेत्ति आहणे कोई । सागारिअ संघट्टण अपुमेत्थी गेण्ह साहइ वा ॥ २२३ ॥
Jain Education International
For Personal & Private Use Only
विस्तीर्णादिका त्रिधा वसतिः नि. २१७-२२३
11 68 11
www.jainelibrary.org