________________
RANGALASAROKAR
स हि रात्रौ कायिकाद्यर्थमुत्थितः सन्नवनतः प्रमार्जयन्निर्गच्छति ततस्तमवनतकायं दृष्ट्वा स्तेन इति मत्वा आहन्यात्कश्चित।दारं । 'नपुंसित्थि'त्ति व्याख्यायते-'सागारिअसंघट्टण त्ति सागारिकसंस्पर्श सति, स हि रात्रौ हस्तेन परामृशन् गच्छति, यतस्ततः स्पर्शने सति कश्चित्सागारिको विबुद्ध एवं चिन्तयति-यदुतायं 'अपुम'त्ति नपुंसकं तेन कारणेन मां स्पृशति, ततः सागारिकस्तं साधु नपुंसकबुद्ध्या गृह्णाति । अथ कदाचित्स्त्री स्पृष्टा ततः सा शङ्कते, यदुतायं मम समीपे आगच्छति, ततः 'साहेति' कथयति निजभर्तुः सौभाग्यं ख्यापयन्ती परमार्थेन वा ॥ __ ओरालसरीरं वा इत्थि नपुंसा बलावि गेण्हंति । सावाहाए ठाणे निते आवडणपडणाई ॥२२४ ॥
औदारिकशरीरं वा तं साधुं दृष्ट्वा दिवा ततो रात्रौ स्त्री नपुंसकं बलागृह्णाति, औदारिक-चङ्गिकम् । एते विस्तीर्णवसतिदोषा व्याख्याताः । इदानीं क्षुल्लिकावसतिदोषान् प्रतिपादयन्नाह-'सावाहाए'त्ति संकटायां वसतौ स्थाने-अवस्थाने सति 'णिते आवडपडणादीति निर्गच्छन्नापतितश्च निर्गच्छन्नापतनपतनादयो दोषाः, तथातेणोत्ति मण्णमाणो इमोवि तेणोत्ति आवडइ जुद्धं । संजमआयविराहणभायणभेयाइणो दोसा ॥ २२५॥ ___ एवं साधोरुपरि प्रस्खलिते साधौ यस्योपरि प्रस्खलितः स तं स्तेनकमिति मन्यमानः अयं च सुप्तोत्थितः अमुं प्रस्खलितं स्तेनकं मन्यमानः सन् 'आपतति युद्धं' युद्धं भवति, ततश्च संयमात्मनोविराधना भाजनभेदादयश्च दोषाः, भाजनं पात्रक भण्यते । उक्ता क्षुल्लिका वसतिः, यस्मात्क्षुल्लिकायामेते दोषास्तस्मात्प्रमाणयुक्ता वसतिग्राह्या । एतदेवाह__ तम्हा पमाणजुत्ता एकेकस्स उ तिहत्थसंथारो। भायणसंथारंतर जह वीसं अंगुला हुंति ॥२२६॥
/
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org