________________
रादि शोधयित्वा' कृत्वेत्यर्थः, अतोऽपराह्नसमये आगच्छन्ति, येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति, वास्तव्या अपि कर्वन्ति, किमित्यत आह-'अब्भुट्ठाणं'ति तेषां प्रविशतामभ्युत्थानादि कुर्वन्ति 'दंडादिताण गहणं'ति दण्डकादीनां ग्रहणं कुर्वन्ति, कथं ?-'एगवयणेणं ति एकेनैव वचनेन उक्ताः सन्तः पात्रकादीन् समर्पयन्ति, वास्तव्येनोक्ते मुञ्चस्वेति | ततश्च मुञ्चन्ति, अथ न मुञ्चत्येकवचनेन ततो न गृह्यन्ते, मा भूत् प्रमाद इति ॥
खुड्डलविगढतेणा उहं अवरण्हि तेण उ पएवि । पक्खित्तं मोत्तुणं निक्खिवमुक्खित्तमोहेणं ॥ २१२॥ | यदा तु पुनस्तैः साधुभिरभिप्रेतो ग्रामः स क्षुल्लको न तत्र भिक्षा भवति ततश्च प्रत्यूषस्येवागच्छन्ति, 'विगिढ़त्ति विकृटमध्वानं यत्र साधर्मिकास्तिष्ठन्ति ततः प्रत्यूषस्येवागच्छन्ति 'तेण'त्ति अथ ततः अपराहे आगच्छतां स्तेनभयं भवेत्ततश्च प्रत्यूषस्येवागच्छन्तीति । उष्णं वा अपराहे आगच्छतां भवति यतोऽतः प्रत्यूषस्येवागच्छन्ति । एवं ते प्रत्यूषसि तस्माद् ग्रामात्प्रवृत्ताः साधुभोजनकाले प्राप्ताः साधर्मिकसमीपं निषेधिकां कृत्वा प्रविशन्ति । ततश्च तेषां प्रविशतां वास्तव्यसाधुभिः किं कर्त्तव्यमित्यत आह-पक्खित्तं मोत्तूणं'ति प्रक्षिप्त-आस्यगतं मुखे प्रक्षिप्तं कवलं मुक्त्वा 'निक्खिवमुक्खित्तं'ति यदुत्क्षिप्तं भाजनगतं तत् 'निक्षिपन्ति' मुश्चन्ति नैषेधिकीश्रवणानन्तरमेव, ततस्ते प्राघूर्णकाः 'ओघेणं ति सङ्केपेण आलोचनां प्रयच्छन्ति । ततो भुञ्जते मण्डल्यां, सा चेयम्
अप्पा मूलगुणेसुं विराहणा अप्प उत्तरगुणेसुं । अप्पा पासत्थाइसु दाणग्गहसंपओगोहा ॥ २१३ ॥ अल्पा मूलगुणेषु, एतदुक्तं भवति-मूलगुणविषया न काचिद्विराधना, अल्पा उत्तरगुणविषया विराधना, अल्पा पार्श्व
-SANGANGAROOMGAMASAL AMA
For Personal & Private Use Only
brary.org