SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रसारयति एवं साधुनाऽप्याकाशे पादौ प्रथममशक्नुवता प्रसारणीयौ, 'अतरंतो त्ति यदा आकाशव्यवस्थिताभ्यां | पादाभ्यां न शक्नोति स्थातुं तदा 'पमज्जए भूमि'न्ति भुवं प्रमृज्य पादौ स्थापयति । कोए संडासं उत्तंते य कायपडिलेहा । दवाईउवओगं णिस्सासनिरुंभणालोयं ॥ २०६ ॥ यदा तु पुनः सङ्कोचयति पादौ तदा 'संडासं'ति संदसं - ऊरुसन्धि प्रमृज्य सङ्कोचयति 'उवत्तंते य'त्ति उद्वर्त्तयंश्चासौ साधुः कार्य प्रमार्जयति, एवमस्य स्वपतो विधिरुक्तः । यदा पुनः कायिकार्थमुत्तिष्ठति स तदा किं करोतीत्याह - 'दवाई - उवओगं' द्रव्यतः क्षेत्रतः कालतो भावतश्चोपयोगं ददाति, तत्र द्रव्यतः कोऽहं प्रत्रजितोऽप्रव्रजितो वा ?, क्षेत्रतः किमु परितलेऽन्यत्र वा ?, कालतः किमियं रात्रिर्दिवसो वा १, भावतः कायिकादिना पीडितोऽहं न वेति, एवमुपयोगे दत्तेऽपि यदा निद्रयाऽभिभूयते तदा 'णिस्सासनिरंभण'त्ति 'निःश्वासं निरुणद्धि' नासिकां दृढं गृह्णाति निःश्वासनिरोधार्थ, ततोऽपगतायां निद्रायां 'आलोयं ति आलोकं पश्यति द्वारम् । यतः - दारं जा पडिले तेणभए दोण्णि सावए तिष्णि । जह य चिरं तो दारे अण्णं ठावेतु पडिअरइ ॥ २०७ ॥ तदाऽसौ द्वारं यावत् 'प्रत्युपेक्षयन्' प्रमार्जयन् प्रजति, एवमसौ निर्गच्छति, तत्र च यदि स्तेनभयं भवति ततः 'दोण्णि'त्ति द्वौ साधू निर्गच्छतः तयोरेको द्वारे तिष्ठति अन्यः कायिकां व्युत्सृजति, 'सावए तिणि'त्ति श्वापदभये सति त्रयः साधव उत्तिष्ठन्ति तत्रैको द्वारे तिष्ठति अन्यः कायिकां व्युत्सृजति अन्यस्तत्समीपे रक्षपालस्तिष्ठति । 'जति य चिरं 'ति Jain Educationonal For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy