SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया कोष्ठकादिवसतिःसंस्तारकविधिःनि. २००-२०३ वृत्तिः SEASURESS ॥८२॥ व्रजन्ति । किंविशिष्टाऽसौ वसतिरन्विष्यते ?-'शून्यगृहादि' पूर्वोक्तं, 'कंचुग तह दारुदंडेणं ति दण्डकपुञ्छनं तद्धि कञ्चुकं परिधाय सर्पपतनभयादण्डनपुग्छनकेन वसतिमुपरिष्टात्प्रस्फोटयन्ति, गच्छश्च प्रविशति, ततः को विधिः स्वापे___ संथारगभूमितिगं आयरियाणं तु सेसगाणेगा। रुंदाए पुप्फइन्ना मंडलिआ आवली इयरे ॥२०२॥ संस्तारकभूमित्रयमाचार्याणां निरूप्यते, एका निवाता संस्तारकभूमिरन्या प्रवाता अन्या निवातप्रवाता, 'सेसगाणेग'त्ति शेषाणां साधूनामेकैका संस्तारकभूमिर्दीयते, 'रुंदाए'त्ति यद्यसौ वसतिर्विस्तीर्णा भवति ततः पुष्पावकीर्णाः स्वपन्तिपुष्पप्रकरवदयथायथं स्वपन्ति येन सागारिकावकाशो न भवति, 'मंडलिय'त्ति अथासौ वसतिः क्षुल्लिका भवति ततो मध्ये पात्रकाणि कृत्वा मण्डल्या पार्श्वे स्वपन्ति । स्थापना चेयम्- 'आवलिय'त्ति प्रमाणयुक्तायां वसतौ 'आवल्या' पतया स्वपन्ति 'इयरे'त्ति क्षुल्लिकाप्रमाणयुक्तयोर्वसत्योरयं विधिः संथारग्गहणाए वेंटिअउक्खेवणं तु कायचं संथारो घेत्तबो मायामयविप्पमुक्केणं ॥२०३॥ 'संथारकग्रहणाय' संस्तारकभूमिग्रहणकाले, एतदुक्तं भवति-mm यदा स्थविरादिः संस्तारकभूमिविभजनं करोति तदा साधुभिः किं कर्त्तव्यमत आह-'वेंटिअउक्खेवणं तु काय' टिआ-उपधिवेण्टलिकास्तासां सर्वैरेव साधुभिरात्मीयात्मीयानामुत्क्षेपणं कर्तव्यं येन सुखेनैव दृष्टायां भुवि विभजितुं संस्तारकाः शक्यन्ते । स च संस्तारको यो यस्मै दीयते साधवे स कथं तेन ग्राह्य इत्याह -'मायामदविप्रमुक्तेन तेन न माया कर्तव्या, यदुताहं वातार्थी ममेह प्रयच्छ, नापि मदः-अह H ॥८२॥ dain Educati onal For Personal & Private Use Only Spinelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy