________________
. अथ शून्यगृहादौ सागारिकाणामापातो भवति तत आपाते सति चिलिमिणी-यवनिका दीयते, 'रणे वत्ति अथ
शून्यगृहादि सागारिकाक्रान्तं ततः अरण्ये निर्भये समुद्दिशनं क्रियते, सभयेऽरण्ये प्रच्छन्नस्य वा 'असति' अभावे ततो ||वसिमसमीप एव कमढकेषु शुक्लेन लेपेन सबाह्याभ्यन्तरेषु लिप्तेषु भुज्यते, 'कुरुआ य'त्ति कुरुकुचा-पादप्रक्षालनादिका
क्रियते 'संतरित'त्ति सान्तराः-सावकाशा बृहदन्तराला उपविशन्ति । इदानीं भुक्त्वा बहिः पुनर्विकाले वसतिमन्विपन्ति, सा च कोष्ठकादिका भवति, तत्र च लब्धायां वसतौ को विधिरित्यत आह
कोहग सभा व पुचिं काल वियाराइभूमिपडिलेहा । पच्छा अइंति रत्तिं पत्ता वा ते भवे रत्तिं ॥२०॥ । कोष्ठकः-आवासविशेषः सभा-प्रतीता कोष्ठकसभा वसतौ लब्धायां प्रागेव 'काले'त्ति कालभूमि प्रत्युपेक्षन्ते यत्र कालो गृह्यते तथा 'वियारभूमिपडिलेहा' विचारभूमिः-सज्ञाकायिकाभूमिस्तस्याश्च प्रत्युपेक्षणा क्रियते । तत एवं प्रत्युपेक्षितायां विकाले वसती 'पच्छा अतिति रत्तिति पश्चाच्छेषाः साधवो रात्रौ प्रविशन्ति । 'पत्ता वा ते भवे रत्तिति यदा पुनस्त आगच्छन्त एव कथमपि रात्रावेव प्राप्तास्तदा रात्रावपि प्रविशन्ति ॥ तत्र च प्रविशतांगुम्मिअभेसण समणा निन्भय बहिठाण वसहिपडिलेहा। सुन्नघरपुवभणिअं कंचुग तह दारुदंडेणं ॥२०१॥
गुल्मिकाः-स्थानकरक्षपालाः 'भेसणं'ति यदि ते कथञ्चित्रासयन्ति ततश्चेदं वक्तव्यं यदुत श्रमणा वयं न चौराः, 'निब्भय'त्ति अथ तु स सन्निवेशो निर्भय एव भवेत्तदा 'बहिठाणं ति बहिरेव गच्छस्तावत्तिष्ठति, वृषभास्तु वसतिप्रत्युपेक्षमार्थ
ॐॐ-5-555555555
JainEducation international
For Personal & Private Use Only
www.nelibrary.org