________________
श्रीओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥ ७६ ॥
'पण्णवण बहुतरगुण' त्ति पुनश्च तस्य प्रज्ञापना- प्ररूपणा क्रियते, तत्र रात्रिगमने बहवो गुणा दृश्यन्ते, बालवृद्धादयः सुखेन गच्छन्ति रात्रौ न तृषा बाध्यन्त इति, 'अणिच्छ' त्ति अथ तथाऽपि नेच्छति गमनम् 'बितिओ वत्ति द्वितीयस्तस्य दीयतेतदर्थं मुच्यत इति । 'उवही वत्ति उपधिस्तस्य दीयते जीर्णा, तदीयश्च शोभनो गृह्यत इति, मा भूत्तत्पार्श्वे स्थितमुपधिं | स्तेनका आच्छेत्स्यन्ति । इदानीमसावेकाकी यदि स्वपिति ततो दोषः प्रमादजनितस्ततश्चोपधिरुपहन्यते, उपहतश्चाकल्प्यो |भवति, एतदेवाह -
सुवणे वीसुवघातो पडियज्झतो अ जो उ न मिलेजा। जग्गण अप्पडिबज्झण जइवि चिरेणं न उवहम्मे ९३ ( भा० ) स्वापे 'वी' एकाकिनो निद्रावशे सति, को दोषः ? - ' उवघाउ' त्ति तस्यैकाकिनः सुप्तस्य उपधिरुपहन्यते स ह्येकाकी स्वपन् प्रमादवान् भवति ख्याद्यभियोगसंभवात्, ततश्च निद्रावशं प्राप्तस्य उपधिरुपहन्यते, अतोऽकल्पनीयो भवति परिष्ठापनीयश्चासौ । गच्छे तु स्वपतोऽपि नोपहन्यते, किं कारणम् ?, यतस्तत्र केचित्सूत्रपौरुषीं कुर्वन्ति, अन्ये द्वितीयप्रहरेऽर्थानुचिन्तनं कुर्वन्ति, तृतीये तु प्रहरे आचार्य उत्तिष्ठति ध्यानाद्यर्थ, चतुर्थे तु प्रहरे सर्व एव भिक्षव उत्तिष्ठन्ति, ततश्च रात्रेकोऽपि प्रहरः शून्यः ततो नोपहन्यते उपधिः, एकाकिनस्तु जागरणं नास्त्यत उपघातः । 'पडिबज्झते व जो उ न मिलेज्ज'त्ति प्रतिबध्यमानो वा ब्रजादिषु क्षीरयाचनेच्छया प्रतिबध्यमानो यो न मिलेत् तस्याप्युपहन्यते उपधिः । किं कारणम् १, एकाकिनः पर्यटनं नोक्तम् १, एकाकी च पर्यटन् प्रमादभाग् भवति अतो व्रजादिप्रतिबन्धेऽप्युपधिरुपहन्यते । यस्तु पुनर्जागर्त्ति तस्मिन् दिवसेऽभुक्तो न व्रजादिषु प्रतिबध्यते स एवंविधस्तस्मिन् दिवसे मिलन्नपि नोपधिमुपहन्ति । 'जइविवि
Jain Education International
For Personal & Private Use Only
विहाररीतिः
नि. १७६
भा९१-९३
॥ ७६ ॥
www.jainelibrary.org