SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Jain Education 'संगार'त्ति सङ्केतोऽभिधीयते, तद्विधिर्वक्तव्यः, 'बितिअ वसहि'त्ति द्वितीये द्वारे वसतिः कर्त्तव्या, पूर्वप्रत्युपेक्षिता तस्या व्याघाते वा वसतेर्ग्रहणविधिर्वक्तव्यः, 'ततिए सण्णि'त्ति तृतीये द्वारे सञ्ज्ञी श्रावको वक्तव्यः, 'चउत्थ साहम्मित्ति चतुर्थे द्वारे साधर्मिका वक्तव्याः, 'पंचमगंमि अ वसहि'त्ति पश्चमे द्वारे वसतिर्वक्तव्या - 'विच्छिण्णा खुड्डलिआ' इत्येवमादि, 'छट्ठे ठा| ढिओ होंति' षष्ठे द्वारे स्थानस्थितो भवति । द्वारगाथेयम् । इदानीं निर्युक्तिकृतोपन्यस्तं सङ्गारद्वयं भाष्यकृद् व्याख्यानयन्नाह - आओसे संगारो अमुई वेलाऍ निग्गए ठाणं । अमुगत्थ वसहिभिक्खं बीओ खग्गूडसंगारो ॥ ९१ ॥ ( भा० ) 'आओसे 'त्ति प्रदोषे 'संगारो'त्ति सङ्केतः आचार्येण कर्त्तव्यः, कथम् ? - ' अमुई वेलाए'त्ति अमुकया वेलया यास्यामः, पुनश्च 'निग्गए ठाणं अमुगत्थ' निर्गतानां सताम् अमुकत्र स्थानं - विश्रामसंस्थानं करिष्यामः, 'वसहि' त्ति अमुक वस - |तिर्भविष्यति - वासको भविष्यतीत्यर्थः, 'भिक्ख'त्ति अमुकत्र ग्रामे भिक्षाटनं कर्त्तव्यम्, एकस्तावदयं 'सङ्गारः' सङ्केतः । 'बितिओ खग्गूडसंगारो' त्ति द्वितीयः सङ्केतः खग्गूडस्य दीयते । स चैवमाह रति न चैव कप्पड़ नीयदुवारे विराहणा दुविहा । पण्णवण बहुतरगुणे अणिच्छ बीउव उवही वा ॥ ९२ ॥ भा० ) 'रत्तिं न चैव कष्पति'त्ति रात्रौ साधूनां गमनं न कल्पयति, द्विविधविराधनासंभवात्, यत उक्तं दिवापि तावत्'नीयदुवारे विराहणा दुविह'त्ति, दिवाऽपि तावदयं दोषः, “नीयदुवारं तमसं, कोडगं परिवज्जए" [ नीचद्वारं तामसं कोष्ठकं परिवर्जयेत् ] इतिवचनात्, नीचद्वारे द्विविधा विराधना सतमस्कत्वाद् आस्तां तावद्रात्रौ, एष च धर्मश्रद्धया न निर्गच्छति । For Personal & Private Use Only helibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy