SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ ७५ ॥ शब्दादुत्तरपट्टकश्च, एषां ग्रहणं 'एकपासेणं' ति ग्रहणं एकस्मिन् पार्श्वे एकत्र स्कन्धे ग्रहणं करोति, द्वितीये तु 'पार्श्वे' स्कन्धे पात्रकाणि गृह्णन्ति, आत्मीयां तूपधिं विण्टलिकां कृत्वा यत्र स्कन्धे उपधिः कृतस्तयैव दिशा कक्षायां करोति । इदानीं 'अधिकरणतेणे'त्ति अमुमवयवं व्याख्यानयन्नाह वणवण अगणि कुडुंबी कुकम्म कम्मरिए । तेणे मालागारे उन्भामग पंथिए जंते ॥ ९० ( भा० ) ते हि यदि सशब्दं व्रजन्ति ततश्च लोको विबुध्यते, विबुद्धश्च सन् 'आउज्जोवण'त्ति अप्काययन्त्राणि ‘योत्रिज्यन्ते’ वहनाय सज्जीक्रियन्ते । अथवा 'आउ'त्ति अप्कायाय योषितो विबुद्धा व्रजन्ति 'जोवणं' ति धान्यप्रकरः तदर्थं लोको याति, प्रकरो-मर्दनं धान्यस्य, लाटविषये 'जोवणं धण्णपइरणं भण्णइ','वणिय"त्ति वणिजो - वालञ्जकाविभातमिति कृत्वा व्रजन्ति । 'अगणित्ति लोहकारशालादिषु अग्निः प्रज्वाल्यते 'कुटुंब'त्ति कुटुम्बिनः स्वकर्मणि लगन्ति 'कुकम्म'त्ति कुत्सितं कर्म | येषां ते कुकर्माणः मात्स्यिकादयः कुत्सिता माराः कुमाराः - सौकरिकाः, एषां बोधो भवति रात्रौ पूत्कारयतां, 'तेणे' त्ति स्तेनकानां च, 'मालाकार'त्ति मालिका विबुध्यन्ते 'उब्भामगति पारदारिका विबुध्यन्ते 'पंथिए 'त्ति पथिका विबुध्यन्ते 'जंते' त्ति यान्त्रिकाः विबुद्धाः सन्तो यन्त्राणि वाहयन्ति चाक्रिकादयः । तत्र यदुक्तं प्राक् “नट्ठे खग्गूडसिंगारो” तत्रेदमुक्तं निर्युक्विकृता सङ्गारकरणमात्रम्, इह पुनः स एव नियुक्तिकारः स सङ्गारः कया यतनया कर्त्तव्यः १ कस्यां च वेलायां कर्त्तव्यः ? इत्येतदाह संगार बीय वसही तइए सण्णी चउत्थ साहम्मी । पंचमगंमि अ वसही छट्ठे ठाणडिओ होति ॥ १७६ ॥ Jain Educationtional For Personal & Private Use Only विहाररीतिः भा. ८७-९० ॥ ७५ ॥ www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy