SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ रेण 'ति किं बहुना ?, जाग्रन्निशि गोकुलादिषु वाऽप्रतिबध्यमानो यद्यपि चिरेण मिलति बहुभिर्दिवसैस्तथाऽप्युपधिस्तस्य नोपहन्यते, अप्रमादपरत्वात्तस्येति । इदानीं गच्छस्य गमनविधिं प्रतिपादयन्नाह - पुरओम तह मग्गओ य ठायंति खित्तपडिलेहा । दाईतुच्चाराई भावासण्णाइरक्खट्ठा || १७७ ॥ क्षेत्रप्रत्युपेक्षका एषु विभागेषु भवन्ति - केचन 'पुरतः' अग्रतो गच्छस्य, केचन मध्ये गच्छस्य, ते हि मार्गानभिज्ञा: 'मार्गतश्च' पृष्ठतश्च तिष्ठन्ति क्षेत्रप्रत्युपेक्षकाः । किमर्थं पुरत एव तिष्ठन्ति ?, 'दाइतुच्चाराई' उच्चारप्रश्रवणस्थानानि दर्शयन्ति गच्छस्य, गच्छस्य 'भावासण्णादिरक्खट्ठत्ति भावासण्णो- अणहियासओ, तद्रक्षणार्थम् एतदुक्तं भवति - उच्चारादिना बाध्यमानस्य ते मार्गज्ञाः स्थण्डिलानि दर्शयन्ति । डहरे भिक्खग्गामे अंतरगामंमि ठावए तरुणे । उवगरणगहण असहू व ठावए जाणगं चेगं ॥ १७८ ॥ 'डहरे भिक्खग्गामेत्ति यत्र ग्रामे वासकोऽभिप्रेतः भिक्षा च अटितुमभिप्रेता तस्मिन् 'डहरे' क्षुल्लके ग्रामे सति किं कर्त्तव्यमत आह- 'अंतरगामंमि' अपान्तराल एव यो ग्रामस्तस्मिन् भिक्षार्थं तरुणान् स्थापयेत्, 'उवगरणगहणं' ति तदीयमुपकरणमन्ये भिक्षवो गृह्णन्ति, 'असहू व ठावएत्ति अथ ते तत्स्थापितेतरभिक्षुसत्कमुपकरणं ग्रहीतुं न शक्नुवन्ति ततोऽसहिष्णव एव तत्रान्तरग्रामे भिक्षार्थं स्थाप्यन्ते ' जाणगं चेगं'ति ज्ञं चैकं-मार्गज्ञं चैकं तेषां मध्ये स्थापयेत् येन सुखेनैवागच्छन्ति दूरुट्ठिअ खुड्डलए नव भड अगणी य पंत पडिणीए । संघाडेगो धुवकम्मिओ व सुण्णे नवरि रिक्खा ॥ १७९ ॥ अथवाऽसौ वासकभिक्षार्थमभिप्रेतो ग्रामो दूरे स्थितः स्याद् उत्थितो वा - उद्वसितः क्षुल्लको वा प्राकू संपूर्णो दृष्टः Jain Education sonal " For Personal & Private Use Only melibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy