________________
A
डाय प्रयच्छन्ति, यदुत त्वयाऽमुकत्र देशे आगन्तव्यमिति । इदानीमस्या एव गाथाया भाष्यकृत् कांश्चिदवयवान् व्याख्या नयति, तत्र प्रथमावयवं व्याख्यानयन्नाह__पडिलेहंतच्चिअ बैंटियाउ काऊण पोरिसि करिति । चरिमा उग्गाहेउं सोचा मज्झण्हि वचंति ॥७९॥(भा०)
ते हि साधवः प्रभातमात्र एव प्रतिलेखयित्वा उपधिकां पुनश्च वेण्टलिकां कुर्वन्ति-संवर्तयन्तीत्यर्थः, ततश्चानिक्षिप्तोपधय एव 'पोरिसिं करेंति' सूत्रपौरुषीं कुर्वन्ति, 'चरिमा उग्गाहेउ'त्ति चरिमवेलायां पादोनपौरुष्यां पात्रकाणि उदाह्य-संयन्त्रयित्वा पुनश्चानिक्षिप्तैरेव पात्रकैः ‘सोच्च'त्ति श्रुत्वा अर्थपौरुषी कृत्वेत्यर्थः, ततो मध्याह्ने वजन्तीति । ते च शोभन एवाहिव्रजन्तीति । अत एवाह- . तिहिकरणंमि पसत्थे नक्खत्ते अहिवइस्स अणुकूले । घेत्तुण निति वसभा अक्खे सउणे परिक्खंता॥८०॥(भा०) | 'तिथी' प्रशस्तायां 'करणे' च बवादिके प्रशस्ते नक्षत्रे वा 'अधिपतेः' आचार्यस्य अनुकूले सति गृहीत्वा अक्षान पाम् | वृषभा निर्गच्छन्ति, किं कुर्वाणा अत आह-'सउणे परिक्खता' 'शकुनान्' प्रशस्तान् परीक्षमाणाः सन्तो वृषभा निर्गच्छन्तीति पश्चादाचार्याः । किं पुनः कारणं पश्चादाचार्या निर्गच्छन्ति , तत्र कारणमाहवासस्स य आगमणे अवसउणे पहिआ निवत्तंति । ओभावणा पवयणे आयरिआमग्गओतम्हा ॥८१॥(भा०) __ वर्षणं वर्षस्तस्यागमनं कदाचिद्भवति, अपशकुने वा दृष्टे प्रस्थिता अपि निवर्तन्ते वृषभाः, यदि पुनराचार्या एव प्राग् ४. निर्गच्छन्ति ततोऽपशकुनदर्शने वृष्टौ च निवर्तमानस्य सतः किं भवति ?, अत आह-'ओहावणा पवयणे' प्रवचने हीलना
NSARS
Jain Education
Lonal
For Personal & Private Use Only
windgainelibrary.org