________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ७२ ॥
ततो गृहात् तेऽप्यनाख्याय गताः ततश्च शङ्कोपजायते, 'जं चऽण्णं'ति यच्चान्यत् शङ्कादि जातं पत्तनगतं तत्सर्वमुपजायत इति गच्छद्भिश्च शय्यातर आपृच्छनीयः ॥ स च विधिना, यतोऽविधिना पृच्छत एते दोषाः
अविपुच्छा उग्गाहिएण सिज्जातरी उ रोएजा । सागारियस्स संका कलहे य सएजिआ खिसे ॥ १६७ ॥ अविधिपृच्छा इयं वर्त्तते, यदुत - 'उग्गा हितेन' उत्क्षिप्तेन उपकरणेन पृच्छति, तत्र 'सेज्जातरी उ रोएज्जा' तेनाकस्मिकेन गमनेन शय्यातर्यो रोदनं कुर्युः, ततश्च 'सागारिकस्य' शय्यातरस्य शङ्कोपजायते, कलहे च सति 'सइजिआए' सह सखि - क्रियया 'खिंस' त्ति यथा न शोभना त्वं येन त्वया तत्र काले भिक्षोर्गच्छतो रुदितं, किं च-ते स पिता भवति १ येन रोदिषीति । अथानागतमेव कथयन्ति - अमुकदिवसे गमिष्यामः, तत्राप्येते दोषाः -
हरि अच्छेयण छप्पय घञ्चणं किचणं च पोत्ताणं । छष्णेयरं च पगयं इच्छमणिच्छे य दोसा उ ॥ १६८ ॥ तद्धि शय्यातंरकुटुम्बं साधवो यास्यन्तीति विमुक्तशेषव्यापारं सत् गृह एव तिष्ठति, कृष्यादिप्रतिजागरणं न करोति, ततश्च क्षणिकं सत् स्वगृहजातहरितच्छेदं करोति । तथा निर्व्यापारत्वादेव च ता रण्डाः षट्पदीनां परस्परनिरूपणेनोप| मर्द कुर्वन्ति । 'किच्चणं च पोत्ताणं ति तत्र दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा वस्त्राणि शोधयन्ति । 'छण्णेयरं च पगयं' प्राकृतं - भोजनं छन्नं कुर्वन्ति, अप्रगटमित्यर्थः, 'इतरं वत्ति प्रकटमेव भोजनं संयतार्थं कुर्वन्ति, तत्र चेच्छतामनिच्छतां च दोषा भवन्ति, कथं ?, यदि तद्भोजनं गृह्णन्ति ततस्तदकल्पनीयम्, अथ न गृह्णन्ति ततो रोषभावं कदाचि - प्रतिपद्यते । एते दोषा अनागतकथने, ततश्च कः पृच्छाविधिरित्याह
Jain Education International
For Personal & Private Use Only
शय्यातरापृच्छादि
नि. १६६१६८
।। ७२ ।।
www.jainelibrary.org