SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भवति, एवमेतद्यथासङ्ख्यं योजनीयम् । 'पणगं तो एक दो तिष्णि' एवमसौ तस्मिन् क्षेत्रे पञ्चकमेकं धार्यते, अथ तथाऽपि बलं न गृह्णाति द्वौ पञ्चकौ धार्यते, त्रीन् वा पञ्चकान् धार्यते, पुनरानीयत इति । एवं ते आलोचितशिष्यगणा आचार्याः शय्यातरमापृच्छय क्षेत्रान्तरं संक्रामन्ति । अथ न पृच्छन्ति ततो दोष उपजायते । एतदेवाह - शय्यातरः, | सागरि अपुच्छगमणं बाहिरा मिच्छ छेय कयनासी । गिहि साहू अभिंधारण तेणगसंकाइ जं चऽण्णं ॥ १६६ ॥ 'सागारिकं ' शय्यातरं अनापृच्छय यदि गमनं क्रियते ततो 'बाहिर'त्ति बाह्या लोकधर्मस्यैते भिक्षवः इत्येवं वक्ति ये च धर्म लोकधर्म न जानन्ति दृष्टं ते कथमदृष्टं जानन्ति ? इत्यतः 'मिच्छत्ति मिथ्यात्वं प्रतिपद्यते, 'छेद'त्ति अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये वा वसतिं न लभन्ते, 'कतणासि 'त्ति अकृतज्ञा ह्येते प्रत्रजिता इत्येवं मन्यते, 'गिहिसाधू अभिधारण'त्ति गृही कश्चिच्छ्रावकस्तमाचार्यमभिधार्य - संचिन्त्यायातः प्रव्रज्यार्थ, तेनाप्यागत्य शय्यातरः पृष्टः - वाचार्यः १, सोऽपि रुष्टः सन्नाह-यः कथयित्वा व्रजति स ज्ञायते, तं तु को जानाति ?, तमाकर्ण्य स श्रावकः कदाचिदर्शनमप्युज्झति, लोकज्ञानमप्येषां नास्ति कुतः परलोकज्ञानमिति ?, कदाचित्साधुः कश्चित्तमाचार्य अभिधार्य - मनसि कृत्वा उपसंपदादानार्थमायाति सोऽपि शय्यातरं पृच्छति, शय्यातरोऽप्याह-न जाने क्व गत इति, ततः स साधुः अनाचारवानाचार्य इति विचिन्त्यान्यत्र गतः, सोऽपि निर्जराया आचार्योऽनाभागी जात इति । ' तेणग'त्ति कदाचित्तद्गृहं केनचित्तस्मि - नेव दिवसे मुष्टं भवेत्तत एवंविधा बुद्धिर्भवेत्-यदुत स्तेनास्ते इत्येवं शङ्कां करोति, आदिशब्दाद्योषित् केन केचित्सह गता Jain Education measonal For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy