________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
| आचायण गच्छपृच्छ. ननि.१६० | १६४ | ग्लानबल
कालं नि. १६५
॥७१॥
भवतीत्यर्थः । आह-एवं तर्हि यत्र भिक्षा न लभ्यते तत्र प्रयान्तु, उच्यते, 'दुर्बलदेहः' कृशशरीरो न साधयति-नाराधयति 'योगान्' व्यापारान् यतस्ततो मध्यमबलाः साधव इष्यन्ते । दुष्टाश्वेन चात्र दृष्टान्तः, दुष्टाश्वो-गर्दभ उच्यते, स यथा प्रचुरभक्षणाद्दर्पिष्टः सन् कुम्भकारारोपितभाण्डकानि भनुक्ति दर्पोत्सेकादुत्प्लुत्य, पुनस्तेनैव कुम्भकारेण निरुद्धाहारः सन्नतिदुर्बलत्वात्प्रस्खलितः सन् भनक्ति, स एव च गर्दभो मध्यमाहारक्रियया सम्यग् भाण्डानि वहति, एवं साधवोऽपि संयमक्रियां मध्यमबला वहन्ति ।
पणपण्णगस्स हाणी आरेणं जेण तेण वा धरइ । जइ तरुणा नारागा वचंति चउत्थगं ताहे ॥१६३ ॥
अथ तस्मिन् गच्छे पञ्चपञ्चाशद्वर्षदेशीयाः त्रिंशद्वर्षाः चत्वारिंशद्वर्षा वा भवन्ति, ततो गम्यते चतुर्थ क्षेत्रं, यतस्ते येन केनचिद्रियन्ते-यापयन्ति (प्यन्ते) । तथा यदि च तरुणा 'नीरोगाः' शक्ता भवन्ति ततश्चतुर्थमेव क्षेत्रं व्रजन्ति । अह पुण जुण्णा थेरा रोगविमुक्का य असहुणो तरुणा । ते अणुकूलं खेत्तं पेसंति न यावि खरगूडे ॥ १६४॥ ___ अथ पुनर्जूर्णा (जीर्णाः) स्थविरा भवन्ति रोगेण च-ज्वरादिना मुक्तमात्रास्तरुणाः, नाद्यापि येषां साम्यं भवति शरीरस्य, ततस्ताननुकूलं क्षेत्रं प्रेषयन्त्याचार्याः । 'न यावि खग्गूडे'त्ति 'खग्गूडा' अलसा निर्धर्मप्रायास्तान्न प्रेषयन्ति । कियता पुनः कालेन वृद्धादय आप्याय्यन्ते ?, उच्यते, पञ्चमात्रैर्दिवसः, यत उक्तं वैद्यके
एगपणअद्धमासं सट्ठी सुणमणुयगोणहत्थीणं । राइंदिएण उ बलं पणगं तो एक्क दो तिन्नि ॥ १६५ ॥ एकेन रात्रिन्दिवेन शुनो बलं भवति, पञ्चभिर्दिनैर्मनुजस्य बलं भवति, अर्द्धमासेन बलीवर्दस्य, षष्टिभिर्दिनैहस्तिनो बलं
॥७१॥
Jain Education interna Donal
For Personal & Private Use Only
www.jainelibrary.org