________________
णानां कथम् ? - 'पडिलोमं ति प्रतिलोमं अपवादमङ्गीकृत्य । अथवाऽविधिना प्रेष्यमाणेषु त एव दोषाः, तत्र 'पडिलोमं ति अविधिप्रतिलोमो विधिस्तेन - प्रतिलोमविधिना प्रेषयेत् । इदानीं बालादीनां प्रेषणार्हत्वे प्राप्ते यतना प्रतिपाद्यते - तत्र च गणावच्छेदकः प्रेष्यते, तदभावेऽन्यो गीतार्थः, तदभावेऽगीतार्थोऽपि प्रेष्यते, तस्य को विधिः १ -
सामायारिमगीए जोगमणागाढ खवग पारावे । वेयावच्चे दायणजुयलसमत्थं व सहिअं वा ॥ १४२ ॥ अगीतार्थस्य सामाचारी कथ्यते, ततः प्रेष्यते, तदभावे योगी प्रेष्यते, किंविशिष्टः १ - 'अणागाढे 'सि अनागाढयोगी - बा - ह्ययोगी योगं निक्षिप्य 'पारयित्वा' भोजयित्वा प्रेष्यते, ततस्तदभावे क्षपकः प्रेष्यते, कथं ? - 'पारावे'त्ति भोजयित्वा तदभावे वैयावृत्त्यकरः, एतदेवाह - 'वेयावच्चे 'त्ति वैयावृत्त्यकरः प्रेष्यते, 'दायण'त्ति स च वैयावृत्त्यकरः कुलानि दर्शयति, तदभावे 'जुअल'त्ति युगलं प्रेष्यते - वृद्धस्तरुणसहितः बालस्तरुणसहितो वा, 'समत्थं व सहिअं व'त्ति समर्थे वृषभे प्रेष्यमाणे तरुणेन सह वृद्धेन वा सह, द्वितीयो वकारः पादपूरणः । आह-प्रथमं बलादय उपन्यस्ताः, तत्कस्मात्तेषामेव प्रेषणविधिर्न प्रतिपादितः प्रथमं १, उच्यते, अयमेव प्रेषणक्रमः, यदुत प्रथममगीतार्थः प्रेष्यते पश्चाद्योगिप्रभृतय इति, आह-इत्थमेवोपन्यासः कस्मान्न कृतः १, उच्यते, अप्रेषणार्हत्वं सर्वेषां तुल्यं वर्त्तते, ततश्च योऽस्तु सोऽस्तु प्रथममिति न कश्चिद्दोषः । इदानीं तेषां गमनविधिं प्रतिपादयन्नाह -
Jain Education International
पंथुचारे उदर ठाणे भिक्खंतरा य वसहीओ । तेणा सावयवाला पच्चावाया य जाणविही ॥ १४३ ॥ 'पंथ 'ति पन्थानं मार्गे चतुर्विधया प्रत्युपेक्षणया निरूपयन्तो गच्छन्ति, 'उच्चारे त्ति उच्चारणप्रश्रवणभूमिं निरूपयन्तो
For Personal & Private Use Only
www.jainelibrary.org