SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ | वुहोऽणुकंप णिजो चिरेण न य मग्गथंडिले पेहे । अहवावि बालबुडा असमत्था गोयरतिअस्स ।। ६९ ।। (भा० ) वृद्धोऽनुकम्पनीयस्ततश्चासावेव लभते नान्यः, तथा 'चिरेणं' ति 'चिरेण' प्रभूतेन कालेन गमनं आगमनं च करोति, म च 'मार्ग' पन्थानं प्रत्युपेक्षितुं समर्थः नापि स्थण्डिलानि प्रत्युपेक्षितुं समर्थः, इदानीं तु द्वयोरपि बालवृद्धयोस्तुल्यदोषोहावनार्थमाह- अथवा बाला वृद्धाश्च 'असमर्थाः' अशक्ताः 'गोचरत्रिकस्य' त्रिकालभिक्षाटनस्येत्यर्थः । दारं । अगीतार्थेऽपि प्रेष्यमाणे एते दोषाः पंथं च मासवासं उवस्सयं एचिरेण कालेणं । एहामोन्ति न याणइ चउत्रिहमणुण्ण ठाणं च ॥ ७० ॥ ( भा० ) 'पन्थानं' मार्ग न जानाति वक्ष्यमाणं 'मास'ति मासकल्पं न जानाति 'वास'ति वर्षाकल्पं न जानाति, तथा 'उपाश्रयं' वसतिं परीक्षितुं न जानाति, तथा शय्यातरेण पृष्टः - कदा आगमिष्यथ ?, ततश्च ब्रवीति - 'एच्चिरेण एहामो त्ति इयता कालेन - अर्द्धमासादिना एष्याम इत्येवं वदतो यो दोषः अविधिभाषणजनितस्तं न जानाति, यतः कदाचिदन्या दिक् शोभनतरा शुद्धा भवति तत्र गम्यते, अतो नैवं वक्तव्यम् एतावता कालेनैष्यामः । तथा 'चउबिह मणुण्ण'ति तत्रोपाश्रये शय्यातरश्चतुर्विधमनुज्ञाप्यते - द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतस्तृणडगलादि अनुज्ञाप्यते, क्षेत्रतः पात्रकमक्षालनभूमिरनुज्ञाप्यते, कालतो दिवा रात्रौ वा निस्सरणमनुज्ञाप्यते, भावतो ग्लानस्य कस्यचिद्भावप्रणिधानार्थं कायिकासञ्ज्ञादि निरूप्यते, एतां चतुर्विधामनुज्ञामनुज्ञापयितुं न जानाति । 'ठाणं च'त्ति वसतिः कीदृशे प्रशस्ते स्थाने भवतीत्येतन्न जानाति । द्वारं । योगिनमपि न प्रेषयेत्, कस्मात् ? - Jain Educational For Personal & Private Use Only gelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy