SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ S आपृच्छा गणस्य नि.१३११३५ श्रीओघ- 18|वा तत्र कश्चित् 'उठाणे'त्ति उत्थितः-उद्वसितः स कदाचिद्देशोभवेत् 'फेडण'त्ति प्राक् तत्र वसतिरासीत् इदानीं तु कदाचिनियुक्तिः दपनीता भवेत् । (हरि) हरितपण्णीय'त्ति हरितं तत्र शाकादि बाहुल्येन भक्ष्यते, तच्च साधूनां न कल्पते दुर्भिक्षप्रायं वा द्रोणीया 'हरितपणी'ति तत्र देशे केषुचिगृहेषु राज्ञो दण्डं दत्त्वा देवतायै बल्यर्थ पुरुषो मार्यते, स च प्रव्रजितादिभिक्षार्थ प्रविष्टः सन् , वृत्तिः तत्र गृहस्योपरि आर्द्रा वृक्षशाखा चिहूं क्रियते, तच्च गृहीतसङ्केतो दूरत एव परिहरति, अगृहीतसङ्केतश्च विनश्यति, तस्माद्गणं पृष्ट्वा गन्तव्यमिति । अथवाऽन्यकर्तृकीयं गाथा, ततश्च न पुनरुक्तदोषः । इदानीं स आचार्यः क्षेत्रप्रत्युपेक्षकान् प्रेषयन् सर्व गणमालोचयति, अथ तु विशेष्यं कश्चिदेकमालोचयति शिष्यादिकं ततश्चैते दोषा भवन्तिसीसे जइ आमंतइ पडिच्छगा तेण बाहिरं भावं । जइ इयरा तो सीसा तेवि समत्तंमि गच्छति ॥ १३४ ॥ शिष्यान् विशिष्य केवलान् यद्यामन्त्रयति ततश्च को दोषः ?, 'पडिच्छग'त्ति सूत्रार्थग्रहणार्थ ये आयाताः साधवस्ते प्रतीच्छकाः 'तेण'त्ति तेन अनालोचनेन 'बाहिरं भावं'ति बहिर्भावं चिन्तयन्ति, बाह्या वयमत्र । अथेतरान्-प्रतीच्छकानालोचयति ततः शिष्या बहिर्भावं मन्यन्ते, प्रतीच्छकाश्च सूत्रार्थग्रहणसमाप्तौ गच्छन्ति ततश्चाचार्य एकाकी संजायत इत्येवं दोषस्तावत् । अथ वृद्धान् पृच्छति ततःतरुणा बाहिरभावं न य पडिलेहोवहीन किइकम्मं । मूलयपत्तसरिसया परिभूया वच्चिमो थेरा ॥१३५॥ वृद्धानालोचयति तरुणा बहिर्भावं मन्यन्ते, ततश्च ते तरुणाः किं कुर्वन्त्यत आह-'न य पडिलेहोवहीं' उपधेः प्रत्युपेक्षणां न कुर्वन्ति, न च कृतिकर्म-पादप्रक्षालनादि कुर्वन्ति । अथ तरुणानेव पृच्छति ततः को दोष, वृद्धा एवं ASAASAASRISAISOSASTO Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy