________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ५२ ॥
दृष्टे सागारिके सति 'असंभम' त्ति असम्भ्रमो - न भयं कर्त्तव्यम्, असम्भ्रान्तेन च तेन साधुना 'पिण्डो तुज्झवि अ इमो' ति स्वाहा' भिक्षापिण्डं गृहीत्वा एवं करोति - अयं यमाय पिण्डः, अयं वरुणाय पिण्डः, अयं धनदाय पिण्डः, अयमिन्द्राय पिण्डः, तुज्झवि अ इमोति स्वाहा - तवाप्ययं पिण्डः स्वाहा 'वेडबि 'त्ति विकृतं शरीरं करोति पिशाचगृहीत इव, एवंविधं साधुं दृष्ट्वा सोऽप्यगारी 'दोच्चा' इति भयेन 'णीति' निर्गच्छति, मुणि ( पिसा) ऊ त्ति काऊणं' पिशाचोऽयमितिकृत्वा । एवं तावदभ्यन्तरस्थसागारिकदर्शने भुञ्जानस्य विधिरुक्तः, यदा तु पुनर्बहिर्व्यवस्थित एव एभिः स्थानान्तरं पश्यति तदा को विधिः ? इत्यत आह
तिद्वेण व मालेण व वाउपवेसेण अहव सढयाए । गमणं च कहण आगम दूरभासे विही इणमो ॥ ५८॥ (भा० )
यदा तु सागारिको बहिर्व्यवस्थित एव साधुं तीत्रेण छिद्रेण कुटिकापवड्डुकेन कटकेन पश्यति, 'मालेण व'त्ति माले - उपरितलव्यवस्थितो यदा कदाचिच्छठतया पश्यति, 'वाउपवेसण 'त्ति, अथवा 'वायुप्रवेशेन' गवाक्षेण शठतया पश्यति, अथवेति विकल्पार्थः, एतेनान्येन वा प्रदेशेन 'शठतया' धूर्त्ततया पश्यति, दृष्ट्वा च गमनं च करोति स सागारिकः, 'कहणं'ति गत्वा चान्येभ्यः कथयति - यदुतागच्छत पश्यत पत्रके भुञ्जानः साधुर्दृष्ट इति, तत्र ' आगम'त्ति तेऽप्यागच्छन्ति, पश्यामः किमेतत्सत्यं न वेति, 'दूरब्भासे विही इणमो' दूरादागच्छतां अभ्यासाद्वाऽऽगच्छतां 'विही इणमो' विधिः 'अयं ' वक्ष्यमाणलक्षणो भवति । कश्चासौ विधिरित्यत आह
थोवं भुंजइ बहुअं विगिंचाई पमपत्तपरिगुणणं । पत्तेसु कहिं भिक्खं दिट्ठमदिट्ठे विभासा उ ॥ ५९ ॥ ( भा० )
Jain Education International
For Personal & Private Use Only
स्थानासतिबहिर्भिक्षाविधिः
भा. ५६-५९
॥ ५२ ॥
www.jainelibrary.org