SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ | असति तस्मिन्नुभये यदा श्रावकोऽल्पसागारिको नास्ति, नापि श्राविकाऽल्पसागारिका, श्राविकश्राविकयोरन्यतरो वा यदाऽल्पसागारिको नास्ति तदा अभावे सति अपजत्ते वत्ति यदा पर्याप्तं तस्मिन् श्रावकगृहे भक्तं न भवति लब्धं तदाऽन्यत्रापि भिक्षाटनं कृत्वा 'सुण्णघराईति शून्यगृहादिषु गम्यते भोजनार्थम् , आदिशब्दाद्देवकुलादिषु वा, तेषां च शून्यगृहादीनां बहिरेव व्यवस्थितः संशब्द-काशितादिरूपं करोति, कदाचित्तत्र कश्चित्सागारिको दुश्चारित्री भवेत् स च तेन शब्देन निर्गच्छति, अथैवमपि शब्दे कृते न निर्गच्छति ततो यष्ट्या द्वारे घट्टनं-आहननं क्रियते, ततः प्रविशति, प्रविष्टश्च यदि कञ्चिन्न पश्यति ततः उस्सग्गं ति ईर्यापथनिमित्तं पञ्चविंशत्युच्छासप्रमाणं कायोत्सर्ग करोति, तथा च 'आसत्थे'त्ति मनागाश्वासितः सन् । ततश्चआलोअणमालोवो अदिहमिवि तहेव आलावो । किं उल्लावं न देसी ? अदिह निस्संकिअं भुंजे ॥५६॥ (भा०) | 'आलोकनं' निरूपणं तत् करोति, अथ निरूपिते [कश्चिदृष्टः] 'आलावोत्ति, यदि कश्चिदृष्टस्तत आलपनं करोति, किमिह भवानागतः ? इति । 'अदिमिवि तहेव आलावो'त्ति अदृष्टेऽपि सागारिके तथैवालपनं करोति, किमिह भवानायातः इति । अथैवमप्युक्तो न कश्चित्तत्रोत्तरं ददाति तत इदमुच्यते-'किमुल्लावं न देसीति ?, तस्मादुल्लापं प्रतिवचनं प्रयच्छेति । अथैवमपि न कश्चित्तत्रोपलब्धस्ततः 'अदिहे'त्ति सर्वथा सागारिकेऽनुपलब्धे सति निःशङ्कितं भुत इति । अथ एभिरप्यु|पायैर्न प्रकटीभूतः सागारिकः पश्चात्तु प्रकटीभूतो भुञ्जतः सतस्ततः,दिह असंभम पिंडो तुज्झवि य इमोत्ति साह वेउच्ची। सोवि अगारो दोचा नीइ पिसाउत्ति काऊणं ॥५७॥(भा०) Jain Education Head For Personal & Private Use Only Wanelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy