________________
समुद्दिशतीति । इयं तावनियुक्तिगाथा, एतामेव भाष्यकारः प्रतिपदं व्याख्यानयति, तत्र चोदकाक्षेपपरिहारद्वारेण प्रवेशविधिरुक्तः, इदानीं बहिस्तिष्ठतोऽधिकतरदोषप्रतिपादनायाहफेडेज व सइ कालं संखडि घेत्तूण वा पए गच्छे । सुण्णघराइपलोअण चेइअ आलोयणाऽबाहं ॥५२॥(भा०) | स हि तत्र बहिर्व्यवस्थितः किं कुर्यादत आह-'फेडेज व सइ कालं' अपनयेत् 'सतित्ति विद्यमानं भिक्षाकालम् , एतदुक्तं भवति-ग्रामे प्रहरमात्र एव भिक्षावेला भवति, तत्र च व्यवस्थितः साधुस्तां भिक्षावेलामपनयति, 'संखडि'त्ति कदाचित्तत्रान्यस्मिन् दिवसे सङ्घडिरासीत् , तदुद्धरितं च पर्युषितभक्तं प्रत्यूषस्येव भक्षितं गृहस्थैरतोऽसौ साधुर्बहिर्व्यवस्थितस्तस्य भ्रष्ट इति, 'घेत्तूण वा पए गच्छे'त्ति गृहीत्वा वा यत्तत्र राद्धं पक्कं वा तत्प्रागेव श्रावको गृहीत्वा ग्रामान्तरं गतः, ततश्चासौ | साधुस्तस्य भ्रष्ट इति, अत एतद्दोषभयात्प्रवेष्टव्यम् । प्रविशतश्च को विधिरित्यत आह-'सुण्णघरादिपलोयण' प्रविशंश्चासौ साधुः शून्यगृहादिप्रलोकनं करोति, कदाचित्तत्र भुजिक्रियां करोति, प्रविष्टश्च श्रावकगृहे 'चेइय'त्ति चैत्यवन्दनं करोति 'आलोयण'त्ति आलोचनां श्रावकाय ददाति, यदुताहमाचार्येण कारणवशादेकाकी प्रहित इति, 'अबाहित्ति न काचिद्बाधा शीलव्रतेषु भवतामित्येवं पृच्छति । तत्र च प्रविष्टो भिक्षादोषान् कथयन्नाहउग्गम एसणकहणं न किंचि करणिज्ज अम्ह विहिदाणं । कस्सट्टाआरंभो तुज्झेसो? पाहुणा डिंभा॥५३(भा०)
उद्गमदोषाणाम् -आधाकर्मादिदोषाणां कथनं एषणादोषाणां च कथनं,ततश्च आरम्भं दृष्ट्वा एतच्च ब्रवीति-नास्मदर्थे किञ्चित्कर्तव्य आहारविधिः, किन्त्वस्माकं विधिदानं क्रियते, तथा चोक्त-"विहिगहिअं विहिदिण्णं दोण्हपि बहुप्फलं जहा होति"।
CARRANSACASSES
सपनाह
JainEducationala.
For Personal & Private Use Only
K
elibrary.org