________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥ ५० ॥
Jain Education
'विधिपृच्छया' पूर्वाभिहितया 'सञ्ज्ञिनं' श्रावकं श्रुत्वा ततः प्रविशेत्, क्व ? - श्रावकगृहे, न च बहिः संतिष्ठेत् किं कारणम् ? - उद्गमदोषभयात् मा भूत्तं साधुमुद्दिश्य कञ्चिदाहारं कुर्याद् असौ सम्झी । एवमुक्ते सत्याह चोदकः, किं तद् ?, इत्याह- 'बहिं ठाउ' बहिरेवासौ साधुर्भिक्षावेलां प्रतिपालयतु, मा भूत् प्राघूर्णक इतिकृत्वा श्रावक आहारपाकं करिष्यतीति । एवमुक्ते सत्याचार्य आह
सोचा दहूणं वा बाहिठिअं उग्गमेगघर कुज्जा । अप्पत्सपविट्ठो पुण चोयग ! दहुं निवारेजा ॥ ५१ ॥ ( भा० ) श्रुत्वा तं साधुं बहिर्वर्त्तिनमन्यस्मात्पुरुषादेः स्वयं वा दृष्ट्वा उद्गमादीनां दोषाणामेकतरं - अन्यतमं कुर्यात् । 'अप्पत्त'त्ति अप्राप्तायां वेलायामेतच्छ्रावकः कुर्यात्, एष वहिस्तिष्ठतो दोषः, 'पविडो पुण चोयग ! दहुं निवारेज्जा' प्रविष्टः पुनरसौ साधुः सञ्ज्ञिकुलं हे चोयग ! 'दहुंति दृष्ट्वा उद्गमादिदोषं निवारयेत् । किञ्च —
मदोसाईणं कहणा उप्पायनेसणाणं च । तत्थ उ नत्थी सुन्ने बाहिं सागार कालदुवे ॥ ९४ ॥ उद्गमदोषादीनां कथनं करोति उत्पादनादोषाणां एषणादोषाणां च कथनं करोति, ततश्च यदि शुद्धं भक्तं ततस्तत्रैव सञ्ज्ञिगृहे भोक्तव्यम्, अथ तत्र नास्ति ततोऽन्यत्र गन्तव्यम् । एतदेवाह - 'तत्थ उत्ति तत्रैव श्रावकगृहे भुङ्क्ते, 'नत्थि'त्ति अथ तत्र नास्ति भोजनस्थानं ततः 'सुण्ण'त्ति शून्यगृहे याति, 'बाहिं ति अथ शून्यगृहे सागारिकैर्भोक्तुं न शक्यते ततो बाह्यतो व्रजति, अथ तत्रापि 'सागार' ति सागारिकाः ततः 'कालदुवे 'त्ति कालद्वितयं ज्ञातव्यं, किं ?, स्वल्पो दिवस आस्ते आहोश्वित् महान् ?, यदि महांस्ततो दूरमपि स्थण्डिले गत्वा समुद्दिशति, अथ स्वल्पो दिवसस्ततोऽस्थण्डिल एव यतनया
onal
For Personal & Private Use Only
कारणे दीभिक्षा
नि. ९२-९३
विधिपृच्छा
प्रवेशश्च
भा. ५०
५१ दोषकथा
नि. ९४
॥ ५० ॥
inelibrary.org