SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ वयवं भाष्यकारो व्याख्यानयिष्यतीति । इदानीं तत्र सज्ञिकुलेषु प्रविष्टः साधुः कारणमाश्रित्य दीर्घामपि भिक्षाच-' यथा करोति तथा प्रतिपादयन्नाहकक्खडखेत्तचुओ वा दुब्बल अद्धाण पविसमाणो वा । खीराइगहण दीहं बहुं च उवमा अयकडिल्ले ॥ ९२॥ __'कक्खड' रूक्षादिगुणसमन्वितं यत्क्षेत्रं तस्माच्युतः-आयातः सन् , तथा दुर्बलो यदि भवति-वाध्यादिरोगाक्रान्तः, तथा * पुरस्ताद्दीर्घमध्वानं प्रवेक्ष्यति यदि, तत एभिः कारणैः क्षीरादिग्रहणनिमित्तं दीर्घा भिक्षाचर्या करोति, बहुं च क्षीरादि गृह्णाति येनास्य कार्यस्य समर्थो भवति । आह-बहुभक्षणात्कथं विसूचिकादिदोषो न भवति ?, उच्यते, 'उवमा अयकडिल्ले उपमा-उपमानं अयो-लोहं तन्मयं यत्कडिलं तेन उपमा, एतदुक्तं भवति-यथा तप्तलोहकडिल्ले तोयादि क्षयमुपयाति एवमस्मिन् साधी रूक्षस्वभावे बहपि घृतादि क्षयं यातीति । इदानीं य एव प्राग व्यावर्णिता दोषास्तानेव कारणान्तरमुद्दिश्य गुणवत्तया स्थापयन्नाहजे चेव पडिच्छणदीहखद्धसुवणेसु वणिआ दोसा। ते चेव सपडिवक्खा होंति इहं कारणजाए । ९३ ॥ | य एव दोषा 'पडिच्छणे ति प्रतिपालने 'दीहं'ति दीर्घायां भिक्षाचर्यायां 'खद्धत्ति प्रचुरभक्षणे 'सुवण'त्ति स्वापे, एतेषु स्थानान्तरेषु 'वर्णिताः' कथिता ये दोषास्त एव सप्रतिपक्षाः-सविपर्ययाःगुणा इत्यर्थः, भवन्ति, 'इह' अस्मिन् 'कारणजाते कारणमाश्रित्य । इदानीं यदुक्तं नियुक्तिकृता-"पुच्छ बाहिं अंतो पविसिअब"ति, एतद् व्याख्यानयन भाष्यकार आहविहिपुच्छाए सण्णी सोउं पविसे न बाहि संचिक्खे। उग्गमदोसभएणं चोयगवयणं बहिं ठाउ ॥५०॥(भा०) Jain Education For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy