________________
| आलंबणा पण्णत्ता, तंजहा-वायणा पुच्छणा परियणा धम्मकहा, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तंजहा-अणिचाणुप्पेहा असरणाणुप्पेहा एगत्ताणुप्पेहा संसाराणुप्पेहा। ___ 'कंदणय'त्ति महता शब्देन विरवणं 'सोअणय'त्ति दीनता, 'तिप्पणय'त्ति तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं, | विलपनता-पुनः पुनः क्लिष्टभाषणमिति, 'उसण्णदोसे'त्ति उसण्णेन-बाहुल्येनानुपरतत्वेन दोषो-हिंसाऽनृतादत्तादानसं| रक्षणानामन्यतमः उसण्णदोषः, तथा 'बहुदोसे'त्ति बहुष्वपि सर्वेष्वपि हिंसादिषु ४ दोषः-प्रवृत्तिलक्षणो बहुदोषः 'अण्णाणदोसे'त्ति अज्ञानात् कुशास्त्रसंस्काराद्धिंसादिष्वधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषः अज्ञानदोषः, 'आमरणंतदोसे'त्ति मरणमेवान्तो मरणान्तः आ मरणान्तात् आमरणान्तम् , असञ्जातानुतापस्य कालसौकरिकादेरिव या | हिंसादिषु ४ प्रवृत्तिः सैव दोषः आमरणान्तदोषः, इह चातरौद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले त्वासेव्यतयेति । |'चउप्पडोयारे'त्ति चतुर्पु-भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुप्रत्यवतारमिति । 'आणाविजए'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजयं, आज्ञागुणानुचिन्तनमित्यर्थः, एवं शेषपदान्यपि, नवरम् अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाकः-कर्मफलं, संस्था|नानि-लोकद्वीपसमुद्राधाकृतयः। 'आणारुईत्ति नियुक्त्यादिश्रद्धानं 'णिसग्गरुईत्ति स्वभावत एव तत्त्वश्रद्धानम् 'उवए४|| सरुईत्ति साधूपदेशात्तत्त्वश्रद्धानं 'सुत्तरुईत्ति आगमात्तत्त्वश्रद्धानम् 'आलंबण'त्ति आलम्बनानि धर्मध्यानसौधशिखरारो
हणार्थ यान्यालम्ब्यन्ते-आश्रीयन्ते तान्यालम्बनानि-वाचनादीनि, अनित्यत्वाशरणत्वैकत्वसंसारानुप्रेक्षाः प्रतीताः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org