________________
अल्पकलह इत्यर्थः, कलह-क्रोधकार्यम् 'अप्पझंझेत्ति अल्पझञ्झः-अविद्यमानकलहविशेषः, अल्पशब्दश्चाभाववचनोsप्यस्ति, 'दवाभिग्गहचरए'त्ति द्रव्याश्रिताभिग्रहेण चरति-भिक्षामटति द्रव्याश्रिताभिग्रहं वा चरति-आसेवते यः स | द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रान्तायां यद् द्रव्याभिग्रहचरक इत्युक्तं तद्धर्मधर्मिणोरभेदविवक्षणात्, द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः, क्षेत्राभिग्रहः-स्वग्रामपरग्रामादिविषयः, कालाभिग्रहः-पूर्वाह्लादिविषयः, भावाभिग्रहस्तु गानहसनादिप्रवृत्तपुरुषादिविषयः, 'उक्खित्तचरए'त्ति उत्क्षिप्तं-स्वप्रयोजनाय पाकभाजनादुद्धतं तदर्थमभिग्रहत|श्चरति-तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवमुत्तरत्रापि, 'निक्खित्तचरएत्ति निक्षिप्तं-पाकभाजनादनुभृतं 'उक्खित्तनिक्खित्तचरए'त्ति पाकभाजनादुत्क्षिप्य निक्षिप्तं तत्रैवान्यत्र वा स्थाने यत्तदुत्क्षिप्तनिक्षिप्तम् अथवोत्क्षिप्तं च निक्षिप्तं च | यश्चरति स तथोच्यते 'निक्खित्तउक्खित्तचरए'त्ति निक्षिप्तं भोजनपाच्यामुत्क्षिप्तं च स्वार्थ तत एव निक्षिप्तोत्क्षिप्तं, 'वट्टिजमाणचरए'त्ति परिवेष्यमाणचरकः 'साहरिजमाणचरए'त्ति यत् कूरादिकं शीतलीकरणार्थं पटादिषु विस्तारितं तत्पुनभजने क्षिप्यमानं संह्रियमाणमुच्यते, 'उवणीअचरए'त्ति उपनीतं केनचित्कस्यचिदुपढौकितं प्रहेणकादि, 'अवणीयचरए'त्ति अपनीतं देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः, 'उवणीयावणीयचरए'त्ति उपनीतं-विनीतं ढौकितं सत्प्रहेणकाद्यप
नीतं स्थानान्तरस्थापितं अथवोपनीतं चापनीतं च यश्चरति स तथा, अथवा उपनीतं-दायकेन वर्णितगुणं अपनीतं-निराकृतMगुणम् उपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तु दृषितं, यथाऽहो शीतलं जलं केवलं क्षारमिति, यत्तु क्षारं
किन्तु शीतलं तदपनीतोपनीतमुच्यत इति, अत आह-'अवणीयउवणीयचरए'त्ति, 'संसहचरए'त्ति संसृष्टेन-खरण्टितेन ||2||
Jain Education International
For Personal & Private Use Only
www.janelibrary.org