SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ | चेदं व्याख्येयम्, इकारस्तु प्राकृतप्रभवः, 'पोयए इ वा पोतजो-हस्त्यादिः, पोतको वा शिशुरिति वा प्रतिबन्धः स्यात्, 'अंडजे इवा' बोंडजे इ वे' त्यत्र पाठान्तरे अण्डजं वस्त्रं कोशिकारकीटाण्डकप्रभवं बोण्डजं - कर्पासीफलप्रभवं वस्त्रमेव, 'उग्गहिए इ वा' अवगृहीतं - परिवेषणार्थमुत्पाटितं भक्तपानं 'पग्गहिए वा' प्रगृहीतं भोजनार्थमुत्पाटितं तदेव, अथवा | अवग्रहिकं - अवग्रहोऽस्यास्तीत्यवग्रहिकं - वसतिपीठफलकादिकं औपग्रहिकं वा दण्डकादिकमुपधिजातं, प्रगृहीतं तु प्रक|र्षेण गृहीतत्वादधिकमिति, 'जण्णं जण्णं दिसं'ति णङ्कारस्य वाक्यालङ्कारार्थत्वाद्यां यां दिशमिच्छन्ति विहर्तुमिति शेषः, 'तं णं तं णं'ति तां तां दिशं विहरन्तीति योगः, 'सुइभूय'त्ति शुचिभूताः- भावशुद्धिमन्तः श्रुतिभूता वा प्राप्तसिद्धान्ताः, 'लघुभूय'त्ति अल्पोपधितया गौरवत्यागाच्च, अथवा लघुभूतो वायुस्तद्वत् ये सततविहारास्ते लघुभूताः, 'अणप्पगंधा' अनल्पग्रन्थाः - बह्नागमाः अविद्यमानो वा आत्मनः सम्बन्धी ग्रन्थो - हिरण्यादिर्येषां ते तथा अनर्घ्यग्रन्था वा भावध| नयुक्ता इत्यर्थः ॥ १७ ॥ तेसि णं भगवंताणं एतेणं विहारेणं विहरमाणाणं इमे एआरूवे अभितर बाहिरए तवोवहाणे होत्था, | तंजहा - अभितरए छव्विहे बाहिरएवि छविहे || (सू०१८ ) | अथ साधुवर्णकः प्रकारान्तरेणोच्यते - स च 'तेसि णमित्यादि से तं भावविउस्सग्गे' इत्येतदन्तः अनशनादितपोभेदप्रतिपादनपरः सुगम एव, नवरं वाचनान्तरे 'जायामायावित्ति'त्ति संयमयात्रामात्रार्थं वृत्तिः- भक्तग्रहणं यात्रामात्रावृत्तिः 'अदुत्तरं वत्ति अथापरं पुनरित्यर्थः । तथाऽधिकृतवाचनायाम् 'अभितरए 'त्ति अभ्यन्तरम् - आन्तरस्यैव शरी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy